________________
ધ્વન્યાલોક
नन्वनेन न्यायेन सर्वेषामेव लौकिकानां वाक्यानां ध्वनिव्यवहारः प्रसक्तः । सर्वेषामप्यनेन न्यायेन व्यञ्जकत्वात् ।
सत्यमेतत्, किन्तु वक्त्रभिप्रायप्रकाशनेन 'यद्व्यञ्जकत्वं तत्सर्वेषामेव लौकिकानां वाक्यानामविशिष्टम्, तत्तु वाचकत्वान्न भिद्यते । व्यङ्ग्यं हि तत्र नान्तरीयकतया व्यवस्थितम् । न तु विवक्षितत्वेन । यस्य तु विवक्षितत्वेन व्यङ्ग्यस्य स्थितिस्तद्व्यञ्जकत्वं ध्वनिव्यवहारस्य प्रयोजकम् ।
२३४
यत्त्वभिप्रायविशेषरूपं व्यङ्गयं शब्दार्थाभ्यां प्रकाशते तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् । किन्तु तदेव केवलमपरिमितविषयस्य ध्वनिव्यवहारस्य न प्रयोजकमव्यापकत्वात् । तथा दर्शितभेदत्रयरूपं तात्पर्येण द्योत्यमानमभिप्रायरूपमनभिप्रायरूपं च सर्वमेव ध्वनिव्यवहारस्य प्रयोजक मिति यथोक्तव्यञ्जकत्वविशेषे' ध्वनिलक्षणे नातिव्याप्तिर्न चाव्याप्तिः ।
तस्माद्वाक्यतत्त्वविदां मतेन तावद् व्यञ्जकत्वलक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते ।
परिनिश्चितनिरपभ्रंशशब्दब्रह्मणां विपश्चितां मतमाश्रित्यैव प्रवृत्तोऽयं ध्वनिव्यवहार इति तैः १ सह किं विरोधाविरोधौ चिन्त्येते ।
कृत्रिमशब्दार्थसम्बन्धवादिनां तु युक्तिविदामनुभवसिद्ध एवायं व्यञ्जकभावः शब्दानामर्थान्तराणामिवाविरोधश्चेति न प्रतिक्षेप्यपदवीमवतरति ।
वाचकत्वे हि तार्किकाणां विप्रतिपत्तयः प्रवर्तन्ताम्, किमिदं स्वाभाविकं शब्दानामाहोस्वित् सामयिकमित्याद्याः । व्यञ्जकत्वे तु तत्पृष्ठभाविनि भावान्तरसाधारणे लोकप्रसिद्ध एवानुगम्यमाने को विमतीनामवसरः ।
१. 'यदि व्यञ्जकत्वं' नि० । 'यदिदं व्यञ्जकत्वं' दी० । २. ‘ननु' नि० ।
३. ' यस्य तु' यह पाठ नि० में नहीं है । 'न तु विवक्षितत्वेन व्ययस्य व्यवस्थितिः । तद् व्यञ्जकत्वं ध्वनिव्यवहारस्य प्रयोजकम् ' ऐसा पाठ रखा है नि० ।
४. 'शब्दार्थाभ्यामेव' दी० ।
५. ‘यत्’ नि० ।
६. 'न प्रयोजकम्, व्यापकत्वात्' दी० । नि० में 'प्रयोजकम्' के बाद विराम है।
७. 'तत्' दी० ।
८. 'यथोक्तव्यञ्जकत्वविशेषध्वनिलक्षणे' नि०, दी० ।
९. 'मते न' नि०, दी० ।
१०. ‘(न)' नि० ।
११. 'यैः' बा० प्रि० ।
१२. 'भावान्तरासाधारणे' नि० ।