________________
ધ્વન્યાલોક
गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्गयमात्राश्रयेण चाभेदोपचाररूपा सम्भवति, यथा ‘तीक्ष्णत्वादग्निर्माणवकः', 'आह्लादकत्वाच्चन्द्र एवास्या मुखम्' इत्यादौ । यथा च 'प्रिये जने नास्ति पुनरुक्तम्' इत्यादौ ।
यापि लक्षणारूपा गुणवृत्तिः साप्युपलक्षणीयार्थसम्बन्धमात्राश्रयेण चारुरूपव्यङ्ग्यप्रतीतिं विनापि सम्भवत्येव, यथा 'मञ्चाः क्रोशन्ति' इत्यादौ विषये ।
तत्र
यत्र तु सा चारुरूपव्यङ्गयहेतुस्तत्रापि व्यञ्जकत्वानुप्रवेशेनैव, वाचकत्ववत् । असम्भविना चार्थेन यत्र व्यवहारः, यथा 'सुवर्णपुष्पां पृथिवीम्' इत्यादौ, चारुत्वरूपव्यङ्ग्यप्रतीतिरेव प्रयोजिकेति तथाविधेऽपि विषये गुणवृत्तौ सत्यामपि ध्वनिव्यवहार एव युक्त्यनुरोधी । तस्मादविवक्षितवाच्ये ध्वनौ, द्वयोरपि प्रभेदयोर्व्यञ्जकत्वविशेषाविशिष्टा गुणवृत्तिर्न तु तदेकरूपा सहृदयहृदयाह्लादिनी । 'प्रतीयमानाप्रतीतिहेतुत्वाद् विषयान्तरे तद्रूपशून्याया दर्शनात् । एतच्च सर्वं प्राक् सूचितमपि स्फुटतरप्रतीतये पुनरुक्तम् ।
अपि च व्यञ्जकत्वलक्षणो यः शब्दार्थयोधर्मः स प्रसिद्धसम्बन्धानुरोधीति न कस्यचिद् विमतिविषयतामर्हति । शब्दार्थयोर्हि प्रसिद्धो यः सम्बन्धो वाच्य - वाचकभावाख्यस्तमनुरुन्धान एव व्यञ्जकत्वलक्षणो व्यापारः सामग्रयन्तरसम्बन्धादौपाधिकः प्रवर्तते ।
२३०
अत एव वाचकत्वात्तस्य विशेषः । वाचकत्वं हि शब्दविशेषस्य नियत आत्मा' । व्युत्पत्तिकालादारभ्य तदविनाभावेन तस्य प्रसिद्धत्वात् । स त्वनियतः, औपाधिकत्वात् । प्रकरणाद्यवच्छेदेन तस्य प्रतीतेरितरथा त्वप्रतीतेः ।
ननु यद्यनियतस्तत्किं तस्य स्वरूपपरीक्षया । नैष दोषः तस्यानियतत्वम्, न तु स्वे विषये व्ययलक्षणे ।
यतः शब्दात्मनि
१. ‘प्रतीयमाना' नि० । ‘सहृदयहृदयाह्लादिप्रतीयमानाप्रतीतिहेतुत्वात् ' दी० ।
1
२. ' तद्रू पशून्यायाश्च' नि०, दी० ।
३. नि० में इसके आगे 'सम्बन्धी' पाठ अधिक है । दी० में आत्माके बाद विराम देकर ‘सम्बन्धव्युत्पत्तिकालादारभ्य' पाठ रखा है। 1