________________
२२२
વન્યાલોક वाच्यत्वव्यपदेश्यता । शब्दव्यापारयोचरत्वं तु तस्यास्माभिरिष्यत एव, तत्तु व्यङ्गयत्वेनैव, न वाच्यत्वेन । प्रसिद्धाभिधानान्तरसम्बन्धयोग्यत्वेन च तस्यार्थान्तरस्य प्रतीतेः शब्दान्तरेण स्वार्थाभिधायिना यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता ।
न च पदार्थवाक्यार्थन्यायो वाच्यव्यङ्ग्ययोः । यतः पदार्थप्रतीतिरसत्यैवेति' कैश्चित् विद्वद्भिरास्थितम् । यैरप्यसत्यत्वमस्या ताभ्युपेयते तैर्वाक्यार्थपदार्थयोर्घटतदुपादानकारणन्यायोऽभ्युपगन्तव्यः । यथा हि घटे निष्पन्ने तदुपादानकारणानां न पृथगुपलम्भस्तथैव वाक्ये तदर्थे वा प्रतीते पदतदर्थानाम् । तेषां तथा विभक्ततयोपलम्भे वाक्यार्थबुद्धिरेव दूरीभवेत् । न त्वेष वाच्यव्यङ्ग्ययोायः । न हि व्यङ्ग्ये प्रतीयमाने वाच्यबुद्धि¥रीभवति । वाच्यावभासाविनाभावेन तस्य प्रकाशनात् ।
तस्माद् घटप्रदीपन्यायस्तयोः । यथैव हि प्रदीद्वारेण घटप्रतीतावुत्पन्नायां न प्रदीपप्रकाशो निवर्तते तद्वद् व्यङ्ग्यप्रतीतौ वाच्यावभासः ।
यत्तु प्रथमोद्योते “यथा पदार्थद्वारेण” इत्याद्युक्तं तदुपायत्वमात्रात् साम्यविवक्षया । ___ नन्वेवं युगपदर्थद्वययोगित्वं वाक्यस्य प्राप्तम्, तद्भावे च तस्य वाक्यतैव विघटते । तस्या ऐकार्थ्यलक्षणत्वात् ।
नैष दोषः । गुणप्रधानभावेन तयोर्व्यवस्थानात् । व्यङ्ग्यस्य हि क्वचित् प्राधान्यं
१. 'तस्यार्थान्तरस्य च प्रतीते.' दी० नि० । २. 'अस्त्येवेति' नि०, दी। ३. 'तदुपायत्वमात्रस्य विवक्षया' नि०, दी० ।