________________
-.-.. बन्यो स्यान्मतम्, · रत्नानामिव जात्यत्वं प्रतिपत्तृविशेषतः संवेद्यं वाच्यानां रसादिरूपत्वमिति ।
-... नैवम्, यतो यथा जात्यत्वेन प्रतिभासमाने रत्ने रत्नस्वरूपाऽनतिरिक्तत्वमेव तस्य लक्ष्यते, तथा रसादीनामपि विभावानुभावादिरूपवाच्याव्यतिरिक्तत्वमेव लक्ष्यते । न चैवम् । नहि विभावानुभावव्यभिचारिण एव रसा इति कस्यचिदवगमः । अत एव च विभावादिप्रतीत्यविनाभाविनी रसादीनां प्रतीतिरिति तत्प्रतीत्योः कार्यकारणभावेन व्यवस्थानात् क्रमोऽवश्यम्भावी । स तु लाघवान प्रकाश्यते' इत्यलक्ष्यक्रमा एव सन्तो व्यङ्ग्या रसादयः' इत्युक्तम् ।
ननु शब्द एव प्रकरणाद्यवच्छिन्नो वाच्यव्यङ्ग्ययोः सममेव प्रतीतिमुपजनयतीति किं तत्र क्रमकल्पनया । नहि शब्दस्य वाच्यप्रतीतिपरामर्श एव व्यञ्जकत्वे निबन्धनम्। तथा हि गीतादिशब्देभ्योऽपि "रसाभिव्यक्तिरस्ति । न च तेषामन्तरा वाच्यपरामर्शः ।
अत्रापि ब्रूमः । प्रकरणाद्यवच्छेदेन व्यञ्जकत्वं शब्दानामित्यनुमतमेवैतदस्माकम् । किन्तु तद् व्यञ्जकत्वं तेषां कदाचित् स्वरूपविशेषनिबन्धनं कदाचिद् वाचकशक्तिनिबन्धनम् । तत्र येषां वाचकशक्तिनिबन्धनं तेषां यदि वाच्यप्रतीतिमन्तरेणैव स्वरूपप्रतीत्या निष्पन्नं तद्भवेन्न तर्हि वाचकशक्तिनिबन्धनम् । अथ तन्निबन्धनं तन्नियमेनैव 'वाच्यवाचकभावप्रतीत्युत्तरकालत्वं व्यङ्ग्यप्रतीतेः प्राप्तमेव । स तु क्रमो यदि लाघवान्न लक्ष्यते तत्किं क्रियते ।
१. 'प्रतिपत्त विशेष(तः) रसानां' नि०, दी० । २. 'वाच्यानतिरिक्तमेव लक्ष्यते' दी० । 'वाच्यव्यतिरिक्तत्वमेव लक्ष्यते' नि० । ३. 'प्रकाशते' दी। . ४. 'रसाद्यभिव्यक्तिरस्ति' नि०, दी० ।। ५. 'वाच्यवाचकप्रतीत्युत्तरकालत्वं' दी० । ६. 'क्रियताम्' दी० ।