________________
દવન્યાલોક तत्र लब्धप्रतिष्ठे तु विवक्षिते रसे विरोधिरसालानां बाध्यत्वेनोक्तावदोषः । यथा
क्वाकार्य शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति ।। यथा वा पुण्डरीकस्य महाश्वेता प्रति प्रवृत्तनिर्भरानुरागस्य द्वितीयमुनिकुमारोपदेशवर्णने ।
स्वाभाविक्यामङ्गभावप्राप्तावदोषो यथा(१) भ्रमिमरतिमलसहृदयतां प्रलयं मूछा तमः शरीरसादम् । ____ मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ।। इत्यादौ। (२) समारोपितायामप्यविरोधो यथा-'पाण्डुक्षाममित्यादौ' । . यथा वा-'कोपात् कोमललोलबाहुलतिकापाशेन' इत्यादौ ।
२०.२ इयं चाङ्गभावप्राप्तिरन्या यदाधिकारिकत्वात् प्रधान एकस्मिन् वाक्यार्थे रसयो वयोर्वा परस्परविरोधिनोर्द्वयोरङ्गभावगमनम्, तस्यामपि न दोषः । यथोक्तं "क्षिप्तो हस्तावलग्नः” इत्यादौ ।
कथं तत्राविरोध इति चेत्, द्वयोरपि तयोरन्यपरत्वेन व्यवस्थानात् ।
अन्यपरत्वेऽपि विरोधिनोः कथं विरोधनिवृत्तिरिति चेत्, उच्यते-विधौ विरुद्धसमावेशस्य दुष्टत्वं 'नानुवादे । यथा
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ।। इत्यादौ ।
१. अधिकारिकत्वात्' नि०। २. 'व्यवस्थापनात्' नि०, दी० । ३. 'वानुवादे' नि०, बालप्रिया ।