________________
....... arus
नीरसस्तु प्रबन्धो यः सोऽपशब्दो महान् कवेः। स तेनाकविरेव स्यादन्येनास्मृतलक्षणः ॥ . पूर्वे विशृङ्खलगिरः कवयः प्राप्तकीर्तयः ।। तान् समाश्रित्य न त्याज्या नीतिरेषा मनीषिणा ॥ वाल्मीकिव्यासमुख्याश्च ये प्रख्याताः कवीश्वराः । तदभिप्रायबाह्योऽयं नास्माभिर्दर्शितो नयः ॥इति।। १८, १९॥ विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् ।
बाध्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला ॥२०॥ २०.१ स्वसामग्या' लब्धपरिपोषे तु विवक्षिते रसे विरोधिनां विरोधिरसाङ्गानां बाध्यानामङ्गभावं वा प्राप्तानां सतामुक्तिरदोष:२ । बाध्यत्वं हि विरोधिनां शक्याभिभवत्वे सति, नान्यथा । तथा च तेषामुक्तिः प्रस्तुतरसपरिपोषायैव सम्पद्यते। __ अङ्गभावं प्राप्तानां च तेषां विरोधित्वमेव निवर्तते । 'अङ्गभावप्राप्तिर्हि तेषां स्वाभाविकी समारोपकृता वा तत्र येषां नैसर्गिकी तेषां तावदुक्तावविरोध एव । यथा विप्रलम्भशृङ्गारे तदङ्गानां व्याध्यादीनाम् । तेषां च तदङ्गानामेवादोषो नातदङ्गानाम् ।
तदङ्गत्वे च सम्भवत्यपि मरणस्योपन्यासो न ज्यायान् । आश्रयविच्छेदे रसस्यात्यन्तविच्छेदप्राप्तेः । करुणस्य तु तथाविधे विषये परिपोषो भविष्यतीति चेत्, न । तस्याप्रस्तुतत्वात्, प्रस्तुतस्य च विच्छेदात् । यत्र तु “करुणरसस्यैव काव्यार्थत्वं तत्राविरोधः ।
शृङ्गारे वा मरणस्यादीर्घकालप्रत्यापत्तिसम्भवे कदाचिदुपनिबन्धो नात्यन्तविरोधी। दीर्घकालप्रत्यापत्तौ तु तस्यान्तरा प्रवाहविच्छेद एवेत्येवंविधेतिवृत्तोपनिबन्धनं रसबन्धप्रधानेन कविना परिहर्तव्यम् ।
१. 'स्वसामग्री' नि०, दी। २. 'अदोषा' नि०, निर्दोषा दी। ३. नि०, दी० मा तथा च' नथी.. ४. 'तदुक्तावविरोध एवं' नि० । ५. 'अगभावप्राप्तिर्हि तेषां स्वाभाविकी समारोपकृता वा । तत्र येषां नैसर्गिकी तेषां तावदुक्तावविरोध एव'
એટલો પાઠ નિ માં નથી. ६. 'तेषां च' नि०, दी० मा नथी. ७. 'न्याय्यः' नि०, दी। . . ८. 'करुणस्यैव' नि०, दी।