________________
૧૯૨
વન્યાલોક संक्षयकल्पे सङ्ग्रामे 'रामदेवप्रायस्यापि - तावन्नायकस्यानुपक्रान्तविप्रलम्भशृङ्गारस्य निमित्तमुचितमन्तरेणैव शृङ्गारकथायामवतारवर्णने । . __न चैवंविधे विषये दैवव्यामोहितत्वं कथापुरुषस्य परिहारः, यतो रसबन्ध एव कवेः प्राधान्येन प्रवृत्तिनिबन्धनं युक्तम् । इतिवृत्तवर्णनं तदुपाय एवेत्युक्तं प्राक् "आलोकार्थी यथा दीपशिखायां यत्नवान् जनः” इत्यादिना । __ अत एव चेतिवृत्तमात्रवर्णनप्राधान्येऽङ्गाङ्गिभावरहितरसभावनिबन्धेन च कवीनामेवंविधानि स्खलितानि भवन्तीति रसादिरूपव्यङ्ग्यतात्पर्यमेवैषां युक्तमिति यत्नोऽस्माभिरारब्धो न ध्वनिप्रतिपादनमात्राभिनिवेशेन ।
(४) पुनश्चायमन्यो रसभङ्गहेतुरवधारणीयो यत् परिपोषं गतस्यापि रसस्य पौनःपुन्येन दीपनम् । उपभुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृष्यमाणः परिम्लानकुसुमकल्पः कल्पते ।
(५क) तथा वृत्तेर्व्यवहारस्य यदनौचित्यं तदपि रसभङ्गहेतुरेव । यथा नायकं प्रति नायिकायाः कस्याश्चिदुचितां भङ्गिमन्तरेण स्वयं सम्भोगाभिलाषकथने ।
(५ख) यदि वा वृत्तीनां भरतप्रसिद्धानां कैशिक्यादीनां काव्यालङ्कारान्तरप्रसिद्धानामुपनागरिकाद्यानां वा यदनौचित्यमविषये निबन्धनं तदपि रसभङ्गहेतुः ।
एवमेषां रसविरोधिनामन्येषाश्चानया दिशा स्वयमुत्प्रेक्षितानां परिहारे सत्कविभिरवहितैर्भवितव्यम् । परिकरश्लोकाश्चात्र
मुख्या व्यापारविषयाः सुकवीनां रसादयः । तेषां निबन्धने भाव्यं तैः सदैवाप्रमादिभिः ।।
१. 'देवप्रायस्य' नि०, दी। . २. 'स्वप्रवृत्ति' नि०, 'स्ववृत्ति' दी० । ३. 'अगभङ्गि' नि०। ४. 'सत्कवीनाम्' दी० ।