________________
૧૮૮
વન્યાલોક ननु चार्थसामर्थ्याक्षेप्या रसादय इत्युक्तम्, तथा च सुवादीनां 'व्यञ्जकत्ववैचित्र्यकथनमनन्वितमेव । -
उक्तमत्र पदानां व्यञ्जकोक्त्यवसरे ।
किञ्च, अर्थविशेषाक्षेप्यत्वेऽपि रसादीनां तेषामर्थविशेषाणां व्यञ्जकशब्दाविनाभावित्वाद् यथा प्रदर्शितं व्यञ्जकस्वरूपपरिज्ञानं विभज्योपयुज्यत एव । शब्दविशेषाणां चान्यत्र च चारुत्वं यद् विभागेनोपदर्शितं तदपि तेषां व्यञ्जकत्वेनैवावस्थितमित्यवगन्तव्यम् । ___ यत्रापि तत् सम्प्रति न प्रतिभासते तत्रापि व्यञ्जके रचनान्तरे यद् दृष्टं सौष्ठवं तेषां प्रवाहपतितानाम्, तदेवाभ्यासादपोद्धृतानामप्यवभासत इत्यवसातव्यम्' । कोऽन्यथा तुल्ये वाचकत्वे शब्दानां चारुत्वविषयो विशेषः स्यात् । ___ अन्य एवासौ सहृदयसंवेद्य इति चेत्, किमिदं सहदयत्वं नाम । किं रसभावानपेक्षकाव्याश्रितसमयविशेषाभिज्ञत्वम् उत रसभावादिमयकाव्यस्वरूपपरिज्ञाननैपुण्यम् । पूर्वस्मिन् पक्षे तथाविधसहृदयव्यवस्थापितानां शब्दविशेषाणां चारुत्वनियमो न स्यात् । पुनः समयान्तरेणान्यथापि व्यवस्थापनसम्भवात् ।
द्वितीयस्मिंस्तु पक्षे रसज्ञतैव सहृदयत्वमिति । तथाविधैः सहृदयैः संवेद्यो रसादिसमर्पणसामर्थ्यमेव नैसर्गिकं शब्दानां विशेष इति व्यञ्जकत्वाश्रय्येव तेषां मुख्यं चारुत्वम् । वाचकत्वाश्रयाणान्तु प्रसाद एवार्थापेक्षया तेषां विशेषः । अर्थानपेक्षायां त्वनुप्रासादिरेव ॥१६॥ एवं रसादीनां व्यञ्जकस्वरूपमभिधाय तेषामेव विरोधिरूपं लक्षयितुमिदमुपक्रम्यते
प्रबन्धे मुक्तके वापि रसादीन् बन्धुमिच्छता ।
यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् ॥१७॥ प्रबन्धे मुक्तके वापि रसभावनिबन्धनं प्रत्यादृतमनाः कविविरोधिपरिहारे परं यत्नमादधीत । अन्यथा त्वस्य रसमयः श्लोक एकोऽपि सम्यङ् न सम्पद्यते ॥१७||
१. 'न तु' नि०, दी। २. 'व्यञ्जकत्वकथनम्' दी० । ३. 'तत्रान्यत्र च' नि०, दी० । ४. 'न तत् प्रतिभासते' नि०, दी० । ५. 'इत्यवस्थातव्यम्' नि०, दी० । ६. 'व्यञ्जकत्वाश्रय एव' नि०, दी० । ७. 'वाचकत्वाश्रयस्तु' नि०, दी० । ८. 'अर्थापेक्षायां' नि०, ‘अर्था(न) पेक्षायां', दी० ।