________________
ધ્વન્યાલોક
इदानीमलक्ष्यक्रमव्यङ्गयो ध्वनिः प्रबन्धात्मा रामायणमहाभारतादौ प्रकाशमानः प्रसिद्ध एव । तस्य तु यथा प्रकाशनं तत् प्रतिपाद्यते(१) विभावभावानुभावसञ्चार्यौचित्यचारुणः । विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ॥ १०॥ (२) इतिवृत्तवशायातां त्यक्त्वाऽननुगुणां स्थितिम् । उत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयः || ११|| (३) सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया । न तु केवलया शास्त्रस्थितिसम्पादनेच्छया ॥ १२॥ (४) उद्दीपनप्रशमने यथावसरमन्तरा ।
१७२
रसस्यारब्धविश्रान्तेरनुसन्धानमङ्गिनः ||१३|| (५) अलङ्कृतीनां शक्तावप्यानुरूप्येण योजनम् । प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ॥ १४ ॥ प्रबन्धोऽपि रसादीनां व्यञ्जक इत्युक्तं तस्य व्यञ्जकत्वे निबन्धनम् । (१) प्रथमं तावद्, विभावभावानुभावसञ्चार्यौचित्यचारुणः कथाशरीरस्य विधिः । यथायथं प्रतिपिपादयिषितरसभावाद्यपेक्षया य उचितो विभावो भावोऽनुभावः सञ्चारी वा तदौचित्यचारुण कथाशरीरस्य विधिर्व्यञ्जकत्वे निबन्धनमेकम् ।
तत्र विभावौचित्यं तावत् प्रसिद्धम् । भावौचित्यं तु प्रकृत्यौचित्यात् । प्रकृतिर्हि, उत्तममध्यमाधमभावेन दिव्यमानुषादिभावेन च विभेदिनी । तां यथायथमनुसृत्यासङ्कीर्णः स्थायी भाव उपनिबध्यमान औचित्यभाग भवति । अन्यथा तु केवलमानुषाश्रयेण दिव्यस्य, केवलदिव्याश्रयेण वा केवलमानुषस्य उत्साहादयः उपनिबध्यमाना अनुचिता भवन्ति । तथा च केवलमानुषस्य राजादेर्वर्णने सप्तार्णवलङ्घनादिलक्षणा व्यापारा उपनिबध्यमानाः सौष्ठवभृतोऽपि नीरसा एव नियमेन भवन्ति । तत्र त्वनौचित्यमेव हेतुः ।
ननु नागलोकगमनादयः सातवाहनप्रभृतीनां श्रूयन्ते तदलोकसामान्यप्रभावातिशयवर्णने' किमनौचित्यं सर्वोर्वीभरणक्षमाणां क्षमाभुजामिति ।
१. 'वान्' नि०, दी० । ३. 'भान्ति' नि०, दी० ।
२. 'मानुषस्य ' नि० दी० ।
४. 'प्रभावादतिशयवर्णने' नि०, दी० ।