________________
૧૬૮
विषयाश्रयमप्यन्यदौचित्यं तां नियच्छति । काव्यप्रभेदाश्रयतः स्थिता भेदवती हि सा ॥७॥
वक्तृवाच्यगतौचित्ये सत्यपि विषयाश्रयमन्यदौचित्यं सङ्घटनां नियच्छति । यतः काव्यस्य प्रभेदा मुक्तकं संस्कृतप्राकृतापभ्रंशनिबद्धम्, सन्दानितक-विशेषककलापक- कुलकानि, पर्यायबन्धः, परिकथा, खण्डकथासकलकथे', सर्गबन्धो, अभिनेयार्थं, आख्यायिकाकथे' इत्येवमादयः । तदाश्रयेणापि सङ्घटना विशेषवती भवति ।
ધ્વન્યાલોક
(१) तत्र मुक्तकेषु रसबन्धाभिनिवेशिनः कवेस्तदाश्रयमौचित्यम् । तच्च दर्शितमेव । अन्यत्र कामचारः । मुक्तकेषु प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । यथा ह्यमरुकस्य कवेर्मुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । सन्दानितकादिषु तु विकटनिबन्धनौचित्यान्मध्यमसमासादीर्घसमासे एव सङ्घटने । प्रबन्धाश्रयेषु यथोक्तप्रबन्धौचित्यमेवानुसर्तव्यम् ।
(२) पर्यायबन्धे पुनरसमासामध्यमसमासे एव सङ्घटने । कदाचिदर्थौचित्याश्रयेण दीर्घसमासायामपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या ।
(३) परिकथायां कामचारः । तत्रेतिवृत्तमात्रोपन्यासेन नात्यन्तं रसबन्धाभिनिवेशात् ।
(४) खण्डकथासकलकथयोस्तु प्राकृतप्रसिद्धयोः कुलकादिनिबन्धनभूयस्त्वाद् दीर्घसमासायामपि न विरोधः । वृत्त्यौचित्यन्तु यथारसमनुसर्तव्यम् ।
(५) सर्गबन्धे तु रसतात्पर्ये' यथारसमौचित्यम्, अन्यथा तु कामचारः । द्वयोरपि मार्गयोः सर्गबन्धविधायिनां दर्शनाद् रसतात्पर्यं साधीयः ।
१. 'सत्यपि' पाठ ही भां नथी.
२. ' मुक्तकं श्लोक एवैकश्चमत्कारक्षमः सताम्' ।
३. द्वाभ्यान्तु युग्मकं ज्ञेयं त्रिभिः श्लोकैर्विशेषकम् ।।
चतुर्भिस्तु कलापं स्यात् पञ्चभिः कुलकं मतम् ॥ अग्निपुराण
४. 'सकलकथाखण्डकथा' नि०, दी० ।
१५. आख्यायिका कथेत्येवमादयः । नि०, दी० ।
T
६. नि० दी० भां 'हि' बघु.छे..
७. नि. ही मां तु नथी.
८. 'रसतात्पर्येण' नि० ।