________________
१६४
.. ----वन्यास - तत्राव्युत्पत्तिकृतो दोषः शक्तितिरस्कृतत्वात् कदाचिन्न लक्ष्यते । यस्त्वशक्तिकृतो दोषः स झटिति प्रतीयते । परिकरश्लोकश्चात्र- --
अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः।
यस्त्वशक्तिकृतस्तस्य' स झटित्यवभासते । ' तथाहि- महाकवीनामप्युत्तमदेवताविषयप्रसिद्धसम्भोगशृङ्गारनिबन्धनाद्यनौचित्यं शक्तितिरस्कृतत्वाद् ग्राम्यत्वेन न प्रतिभासतें । यथा कुमारसम्भवे देवीसम्भोगवर्णनम् ।
एवमादौ च विषये यथौचित्यात्यागस्तथा दर्शितमेवाग्रे।
शक्तितिरस्कृतत्वं चान्वयव्यतिरेकाभ्यामवसीयते । तथाहि शक्तिरहितेन कविना एवंविधे विषये शृङ्गार उपनिबध्यमानः स्फुटमेव दोषत्वेन प्रतिभासते । नन्वस्मिन् पक्षे 'यो यः शस्त्रं बिभर्ति' इत्यादौ किमचारुत्वम् ? अप्रतीयमानमेवारोपयामः । तस्माद् गुणव्यतिरिक्तत्वे गुणरूपत्वे च सङ्घटनाया अन्यः कश्चिनियमहेतुर्वक्तव्यः । इत्युच्यते
तनियमे हेतुरौचित्यं वक्तृवाच्ययोः ॥६ब॥ तत्र वक्ता कविः, कविनिबद्धो वा । कविनिबद्धश्चापि रसभावरहितो रसभावसमन्वितो वा । रसोऽपि कथानायकाश्रयस्तद् विपक्षाक्षयो वा । कथानायकश्च धीरोदात्तादिभेदभिन्नः पूर्वस्तदनन्तरो वेति विकल्पाः ।
वाच्यं च ध्वन्यात्मरसाङ्गं रसाभासाङ्गं वा, अभिनेयार्थमनभिनेयार्थं वा, उत्तमप्रकृत्याश्रयं तदितराश्रयं वेति बहुप्रकारम् ।
तत्र यदा कविरपगतरसभावो वक्ता तदा रचनाया: कामचारः । यदा हि कविनिबद्धो वक्ता रसभावरहितस्तदा स एव । यदा तु कवि: कविनिबद्धो वा वक्ता रसभावसमन्वितो, रसश्च प्रधानाश्रितत्वा ध्वन्यात्मभूतस्तदा नियमेनैव तत्रासमासमध्यसमासे एव सङ्घटने । करुणविप्रलम्भशृङ्गारयोस्त्वसमासैव सङ्घटना ।
१. 'यस्त्वशक्तिकृतस्तस्य' नि० । २. 'शक्तितिरस्कृतं' नि०। ३. 'यथौचित्यत्यागः' नि० । ૪. નિ. માં આ કારિકભાગને વૃત્તિ રૂપમાં છાપ્યો છે અને પહેલાં આખી કારિકા એકસાથે લીધી છે. ५... ह. भकश्चित्' माथि छे. ६. 'प्रधानभूतत्वाद्' नि० दी। ७. 'तदापि' नि० दी।