________________
૧૬૦
ધ્વન્યાલોક
सङ्घटनाया इव गुणानामनियतविषयत्वप्रसङ्गः । गुणानां हि माधुर्यप्रसादप्रकर्षः करुणविप्रलम्भशृङ्गारविषय एव । रौद्राद्भुतादिविषयमोजः । माधुर्य प्रसादौ रसभावतदाभासविषयावेव, इति विषयनियमो व्यवस्थितः । सङ्घटनायास्तु स विघटते । तथाहि शृङ्गारेऽपि दीर्घसमासा दृश्यते, रौद्रादिष्वसमासा चेति ।
तत्र शृङ्गारे दीर्घसमासा यथा, - “मन्दारकुसुमरेणुपिञ्जरितालका " इति ।
यथा वा
अनवरतनयनजललवनिपतनपरिमुषितपत्रलेखं ते ।
करतलनिषण्णमबले वदनमिदं कं न तापयति ।
इत्यादौ ।
तथा रौद्रादिष्वप्यसमासा दृश्यते । यथा - "यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः” इत्यादौ ।
तस्मान्न सङ्घटनास्वरूपाः, न च सङ्घटनाश्रया गुणाः ।
ननु यदि सङ्घटना गुणानां नाश्रयस्तत् किमालम्बना एते परिकल्प्यन्ताम् । उच्यते । प्रतिपादितमेवैषामालम्बनम् ।
1
“तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः । अङ्गाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत् ॥”
११
अथवा भवन्तु शब्दाश्रया एव गुणाः । न चैषामनुप्रासादितुल्यत्वम्' । यस्मादनुप्रासादयोऽनपेक्षितार्थशब्दधर्मा एव प्रतिपादिता : १ । गुणास्तु व्यङ्ग्यविशेषावभासिवाच्यप्रतिपादनसमर्थशब्दधर्मा एव २ । शब्दधर्मत्वं चैषामन्याश्रयत्वेऽपि शरीराश्रयत्वमिव शौर्यादीनाम् ।
ननु यदि शब्दाश्रया गुणास्तत् सङ्घटनारूपत्वं तदाश्रयत्वं वा तेषां प्राप्तमेव । नह्यसङ्घटिताः शब्दा ं अर्थविशेषप्रतिपाद्यरसाद्याश्रितानां १३ गुणानामवाचकत्वादाश्रया भवन्ति ।
10
१. 'गुणानामप्यनियतविषयत्वप्रसङ्गः' दी० । २. 'दृश्यन्ते' नि०, दी० । ३. 'असमासाश्चेति' नि०, दी० । ४. 'पत्रलेखान्तम्' नि०, दी० । ५. 'दृश्यन्ते' दी० । ६. नि. तथा ही. भांगमा 'गुणाः' पहने 'तस्मान्न' नी पछी राजेस छे. ७. 'तर्हि' दी० । ८. 'परिकल्प्यन्ते' नि० । ९. तेनी पछी 'शंकनीयम्' या ही भां अधिछे. १०. 'अनपेक्षितार्थविस्ताराः शब्दधर्मा एवं नि०, दी० । ११. नि० दी० भां 'प्रतिपादिता' नथी. १२. 'गुणास्तु व्यङ्ग्यविशेषावभासिवाच्यप्रतिपादनसमर्थशब्दधर्मा एवं' नि० भां नथी. १३. 'अर्थविशेषं प्रतिपाद्य रसाद्याश्रितानां', नि० दी० ।