________________
ધ્વન્યાલોક
वाक्यरूपश्चालक्ष्यक्रमव्यङ्गयो ध्वनिः शुद्धोऽलङ्कारसङ्कीर्णश्चेति द्विधा मतः । तत्र शुद्धस्योदाहरणं यथा रामाभ्युदये-“ कृतककुपितैः” इत्यादिश्लोकः ।
एतद्धि वाक्यं परस्परानुरागं परिपोषप्राप्तं प्रदर्शयत् सर्वत एव परं रसतत्त्वं प्रकाशयति ।
૧૫૮
अलङ्कारान्तरसङ्कीर्णो यथा “ स्मरनवनदीपूरेणोढाः” इत्यादिश्लोकः । अत्र हि रूपकेण यथोक्तव्यञ्जकुलक्षणानुगतेन प्रसाधितो रसः सुतरामभिव्यज्यते ||४||
अलक्ष्यक्रमव्यङ्ग्यः सङ्घटनायां भासते ध्वनिरित्युक्तम्, तत्र सङ्घटनास्वरूपमेव तावन्निरूप्यते
असमासा समासेन मध्यमेन च भूषिता ।
तथा दीर्घसमासेति त्रिधा सङ्घटनोदिता ||५||
कैश्चित् ॥५॥
तां केवलमनूद्येदमुच्यते
गुणानाश्रित्य तिष्ठन्ती माधुर्यादीन् व्यनक्ति सा ||६|||
रसान्',
३सा सङ्घटना रसादीन व्यनक्ति गुणानाश्रित्य तिष्ठन्तीति । अत्र च विकल्प्यम्, गुणानां सङ्घटनायाश्चैक्यं व्यतिरेको वा । व्यतिरेकेऽपि द्वयी गतिः । गुणाश्रया सङ्घटना, सङ्घनाश्रया वा गुणा इति ।
तत्रैक्यपक्षे सङ्घटनाश्रयगुणपक्षे च गुणानात्मभूतान्, आधेयभूतान् वाश्रित्य तिष्ठन्ती सङ्घटना रसादीन् व्यनक्तीत्ययमर्थः । यदा तु नानात्वपक्षे' गुणाश्रयसङ्घटनापक्षः', तदा गुणानाश्रित्य तिष्ठन्ती गुणपरतन्त्रस्वभावा न तु गुणरूपैवेत्यर्थः ।
किं पुनरेवं विकल्पनस्य प्रयोजनमिति ?
अभिधीयते । यदि गुणाः सङ्घटना चेत्येकं तत्त्वं सङ्घटनाश्रया वा गुणाः, तदा
१. 'सङ्घटनाया' नि० ।
२. नि. भां 'रसान्' नी भगाओ 'रस' पाह छे रहने खामी अरि भेट्टी साथे छ्यायेस छे.
३. 'सा' नि० तथा दी० मां नथी.
४. यदा तु नानात्वपक्षो' नि०, दी० ।
५. 'गुणाश्रयः सङ्घटनापक्षश्च' नि० । गुणाश्रयसङ्घटनापक्षश्च दी० ।