________________
૧૫૪ ___४-अत्रैव प्रभेदे वाक्यप्रकाशता यथोदाहृतं प्राक्. “सज्जेहि सुरहिमासो'' इत्यादि । -
अत्र सज्जयति सुरुभिमासो न तावदर्पयत्यनङ्गाय शरानित्ययं वाक्यार्थः कविप्रौढोक्तिमात्रनिष्पन्नशरीरो मन्मथोन्माथकदनावस्थां वसन्तसमयस्य सूचयति । ५-स्वतःसम्भविशरीरार्थशक्त्युद्भवप्रभेदे पदप्रकाशता यथा
वाणिअअ हत्तिदन्ता कुत्तो अह्माण बाघकित्ती अ। जाव लुलिआलअमुही घरम्मि परिसक्कए सुला ।। (वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च ।
यावल्ललितालकमुखी गृहे परिष्वक्कते स्नुषा ॥ इति च्छाया) अत्र ‘लुलितालकमुखी' इत्येतत् पदं व्याधवध्वाः स्वतःसम्भावितशरीरार्थशक्त्या सुरतक्रीडासक्तिं 'सूचयत्तदीयस्य भर्तुः सततसम्भोगक्षामतां प्रकाशयति । ६-तस्यैव वाक्यप्रकाशता यथा
सिहिपिञ्छकण्णऊरा बहुआ वाहस्स गन्विरी भमइ । मुक्ताफलरइअपसाहणाणं मज्झे सवत्तीणम् ॥ (शिखिपिच्छकर्णपूरा भार्या व्याधस्य गर्विणी भ्रमति ।
मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ॥ इति च्छाया) अनेनापि वाक्येन व्याधवध्वाः शिखिपिच्छकर्णपूराया नवपरणीतायाः कस्याश्चित् सौभाग्यातिशयः प्रकाश्यते ।
तत्सम्भोगैकरतो मयूरमात्रमारणसमर्थः पतिर्जात इत्यर्थप्रकाशनात् । तदन्यासां चिरपरिणीतानां मुक्ताफलरचितप्रसाधनानां दौर्भाग्यातिशयः ख्याप्यते ।
तत्सम्भोगकाले स एव व्याधः करिवरवधव्यापारसमर्थ आसीदित्यर्थप्रकाशनात् ।
१.४ ननु ध्वनिः काव्यविशेष इत्युक्तं तत्कथं तस्य पदप्रकाशता ? काव्यविशेषो हि विशिष्टार्थप्रतिपत्तिहेतुः शब्दसन्दर्भविशेषः । तद्भावश्च पदप्रकाशत्वे नोपपद्यते । पदानां स्मारकत्वेनावाचकत्वात् ।
उच्यते । स्यादेष दोषो यदि वाचकत्वं प्रयोजक ध्वनिव्यवहारे स्यात् । न त्वेवम् । तस्य व्यञ्जकत्वेन व्यवस्थानात् ।
किञ्च काव्यानां शरीरिणामिव संस्थानविशेषावच्छिन्नसमुदायसाध्यापि चारुत्वप्रतीतिरन्वयव्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानामपि व्यञ्जकत्वमुखेन व्यवस्थितो ध्वनिव्यवहारो न विरोधी । १. 'मन्मथोन्मादकतापादनावस्थानम् सूचयंस्तदीयस्य' नि०, दी० । २. 'सूचयंस्तदीयस्य' नि०, दी०, वा० । ३. नि०, दी० २५॥ २५नु२६ नथी.. ४. 'प्रयोजकं न' नि०। ५. 'विरोधि' नि०, 'बालप्रिया' ।