________________
૧૫૨
--तस्यैवार्थान्तरसङ्क्रमितवाच्यस्य वाक्यप्रकाशता यथाविसमइओ' काण वि कोण वि बालेइ अमिअणिम्माओ । काण व विसामिअमओ काण वि अविसामओ कालो || (विषमयितः केषामपि केषामपि यात्यमृतनिर्माण । केषामपि विषामृतमयः केषामप्यविषामृतः कालः ॥ इति च्छाया)
अत्र हि वाक्ये 'विषामृत' शब्दाभ्यां दुःखसुखरूपसङ्क्रमितवाच्याभ्यां व्यवहार इत्यर्थान्तरसङ्क्रमितवाच्यस्य व्यञ्जकत्वम् ।
१.३ १-विवक्षिताभिधेयस्यानुरणनरूपव्यङ्ग्यस्य शब्दशक्त्युद्भवे प्रभेदे पद
प्रकाशता यथा
ધ્વન્યાલોક
प्राप्तुं धनैरर्थिजनस्य वाञ्छां दैवेन सृष्टो यदि नाम नास्मि । पथि प्रसन्नाम्बुधरस्तडागः कूपोऽथवा किन्न जडः कृतोऽहम् ॥
अत्र हि ‘जडः' इति पदं निर्विण्णेन वक्त्रात्मसमानाधिकरणतया प्रयुक्तमनुरणनरूपतया कूपसंमानाधिकरणतां स्वशक्त्या प्रतिपद्यते ।
२-तस्यैव वाक्यप्रकाशता यथा हर्षचरिते सिंहनादवाक्येषु
'वृत्तेऽस्मिन् महाप्रलये धरणीधारणायाधुना त्वं शेषः । '
एतद्धि वाक्यमनुरणनरूपमर्थान्तरं शब्दशक्त्या स्फुटमेव प्रकाशयति । ३-अस्यैव कविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा हरिविजये -
चूअङ्कुरावअंसं 'छणमप्पसरमहघ्घमणहरसुरामोअम् ।
असमप्पिअं पि गहिअं कुसुमसरेण महुमासलच्छिमुहम् ॥
( चूतारावतंसं 'क्षणप्रसरमहार्धमनोहरसुरामोदम् ।
असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्मीमुखम् ॥ इति च्छाया) अत्र ह्यसमर्पितमपि कुसुमशरेण मधुमासलक्ष्म्या मुखं गृहीतमित्यसमर्पितमपीत्येतदवस्थाभिधायि पदमर्थशक्त्या कुसुमशरस्य बलात्कारं प्रकाशयति ।
१. 'विसमइओ च्चिअ' नि० । २. 'अभिअमओ' नि० । ३. 'विपमय इव' नि० ।
४. ‘अमृतमयः' नि० । ५. 'छणपसरमहं घणमहुरामोअम्' नि० । ६. 'महदूद्धनमधरामोदम्' नि०, दी० ।