________________
૧૪૬
तासामेवालङ्कृतीनाम्
अलङ्कारान्तरव्यङ्ग्यभावे,
पुनः
ध्वन्यङ्गता भवेत् । चारुत्वोत्कर्षतो व्यङ्ग्यप्राधान्यं यदि लक्ष्यते ||३०||
ધ્વન્યાલોક
उक्तं ह्येतत् चारुत्वोत्कर्षनिबन्धना वाच्यव्यङ्ग्ययोः प्राधान्यविवक्षा इति । वस्तुमात्रव्यङ्ग्यत्वं चालङ्काराणामनन्तरोपदर्शितेभ्य एवोदाहरणेभ्यो विषय उन्नेयः । तदेवमर्थमात्रेणालङ्कारविशेषरूपेण वार्थेन, अर्थान्तरस्यालङ्कारस्य वा प्रकाशने चारुत्वोत्कर्षनिबन्धने सति प्राधान्येऽर्थशक्त्युद्भवानुरणनरूपव्ययो ध्वनिरवगन्तव्यः ।
एवं ध्वनेः प्रभेदान् प्रतिपाद्य तदाभासविवेकं कर्तुमुच्यतेयत्र प्रतीयमानोऽर्थः प्रम्लिष्टत्वेन भासते ।
वाच्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः ॥३१॥
द्विविधोऽपि प्रतीयमानः स्फुटोऽस्फुटश्च । तत्र य एव स्फुटः शब्दशक्त्यार्थशक्त्या वा प्रकाशते स एव ध्वनेर्मार्गो नेतरः स्फुटोऽपि योऽभिधेयस्याङ्गत्वेन प्रतीयमानोऽवभासते सोऽस्यानुरणनरूपव्यङ्ग्यस्य ध्वनेरगोचरः । यथा
कमलाअराणं मलिआ हंसा उड्डाविआ ण अ पिउच्छा । केण वि गामड़ाए अब्भं उत्ताणअं फलिहम् ॥ (कमलाकरा न मलिना हंसा उड्डायिता न च पितृष्वसः । केनापि ग्रामतडागे, अभ्रमुत्तानितं क्षिप्तम् ॥ इति च्छाया)
अत्र हि प्रतीयमानस्य मुग्धवध्वा जलधरप्रतिबिम्बदर्शनस्य वाच्याङ्गत्वमेव ।
एवंविधे विषयेऽन्यत्रापि यत्र व्यवयापेक्षया वाच्यस्य चारूत्वोत्कर्षप्रतीत्या प्राधान्यमवसीयते, तत्र व्यङ्ग्यस्याङ्गत्वेन प्रतीतेर्ध्वनेरविषयत्वम् । यथा
वाणीरकुडंगोड्डीणसउणिकोलाहलं सुणंतीए ।
घरकम्मवावडाए बहुए सीअंति अंगाई ||