________________
१४२
ધ્વન્યાલોક
अत्र हि वाच्यविशेषेण सापराधस्यापि बहुज्ञस्य कोपः कर्तुमशक्य इति समर्थकं 'सामान्यमन्वितमन्यत्तात्पर्येण प्रकाशते ।
व्यतिरेकध्वनिरप्युभयरूपः सम्भवति । तत्राद्यस्योदाहरणं प्राक् प्रदर्शितमेव । द्वितीयस्योदाहरणं यथा
जाज्ज वणुद्देसे खुज्ज व्विअ पाअवो' गडिअवत्तो । मा माणुसम्मि लोए ताएक्करसो दरिदो अ ॥
( जायेय वनोद्देशे कुब्ज एवं पादपो गलितपत्रः ।
मा मानुषे लोके त्यागैकरसो दरिद्रश्च || इति च्छाया)
अत्र हि त्यागैकरसस्य दरिद्रस्य जन्मानभिनन्दनं त्रुटितपत्रकुब्जपादपजन्माभिनन्दनं च साक्षाच्छब्दवाच्यम् । तथाविधादपि पादपात् तादृशस्य पुंस उपमानोपमेयत्वप्रतीतिपूर्वकं शोच्यतायामाधिक्यं तात्पर्येण प्रकाशयति ।
२७.४ उत्प्रेक्षाध्वनिर्यथा
चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितः । मूर्च्छयत्येष पथिकान् मधौ मलयमारुतः ।।
अत्र हि मधौ मलयमारुतस्य पथिकमूर्च्छाकारित्वं मन्मथोन्माथदायित्वेनैव । तत्तु चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितत्वेनोत्प्रेक्षितमित्युत्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसामर्थ्यादनुरणनरूपा लक्ष्यते । न चैवंविधे विषये इवादिशब्दप्रयोग - मन्तरेणासम्बद्धतैवेति' शक्यते वक्तुम् । गमकत्वादन्यत्रापि तदप्रयोगे तदर्थावगतिदर्शनात् । यथा
ईसा कलुसस्स वि तुह मुहस्स ण एस पुण्णिमाचन्दो । अज्ज सरिसत्तणं पाविऊण अङ्ग बिअ ण माइ ||
यथा वा
( ईर्ष्याकलुषस्यापि तव मुखस्य नन्वेष पूर्णिमाचन्द्रः । अद्य सदृशत्वं प्राप्य अङ्ग एव न माति ॥ इति च्छाया) त्रासाकुलः परिपतन् परितो निकेतान् पुम्भिर्न कैश्चिदपि धन्विभिरन्वबन्धि । तस्थौ तथापि न मृगः क्वचिदङ्गनाभिराकर्णपूर्णनयनेषुहतेक्षणश्रीः ||
शब्दार्थव्यवहारे च प्रसिद्धिरेव प्रमाणम् । श्लेषध्वनिर्यथा
१. 'अर्थसामान्यं' नि० दी० ।
३. 'असम्बद्धैव' नि०, दी० ।
२. 'घडिअवत्तो' = 'घटितपत्र' नि०, दी० । ४. 'शक्यम्' नि०, दी० ।