________________
વન્યાલોક “यत्र च 'मातङ्गगामिन्यः शीलवत्यश्च, गौर्यो विभवरताश्च, श्यामाः पद्मरागिण्यश्च, धवलद्विजशुचिवदना मदिरामोदश्वसनाश्च प्रमदाः।" __ अत्र हि वाच्यो विरोधस्तच्छायानुग्राही वा श्लेषोऽयमिति न शक्यं वक्तुम् । साक्षाच्छब्देन विरोधालङ्कारस्याप्रकाशितत्वात् । यत्र हि साक्षाच्छब्दावेदितो विरोधालङ्कारस्तत्र हि श्लिष्टोक्तौ वाच्यालङ्कारस्य विरोधस्य श्लेषस्य वा विषयत्वम् । यथा तत्रैव
‘समवाय इव विरोधिनां पदार्थानाम् । तथाहि, सन्निहितबालान्धकारापि भास्वन्मूर्तिः ।' इत्यादौ । यथा वा ममैव
सर्वैकशरणमक्षयमधीशमीशं धियां हरिं कृष्णम् ।
चतुरात्मानं निष्क्रियमरिमथनं नमत चक्रधरम् ।। अत्र हि शब्दशक्तिमूलानुस्वानरूपो विरोधः स्फुटमेव प्रतीयते । एवंविधो व्यतिरेकोऽपि दृश्यते । यथा ममैव
खं येऽत्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनो ये पुष्णन्ति सरोरुहश्रियमपि क्षिप्ताजभासश्च ये । ये मूर्धस्ववभासिनः क्षितिभृतां ये चामराणां शिरां
स्युत्क्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रिये सन्तु वः ।। एवमन्येऽपि शब्दशक्तिमूलानुस्वानरूपव्यङ्ग्यध्वनिप्रकाराः सन्ति ते सहृदयैः स्वयमनुसर्तव्याः । इह तु ग्रन्थविस्तरभयान्न तत्प्रपञ्चः कृतः ॥२१॥
१. 'मत्तमातङ्ग' नि०, दी। २. 'चन्द्रकान्तवपुषः शिरीषकोमलाङ्ग्यश्च, अभुजङ्गगम्या: क किन्यश्च, पृथुकलत्रश्रियो __ दरिद्रमध्यकलिताश्च, लावण्यवत्यो मधुरभाषिण्यश्च, अप्रमत्ताःप्रसन्नोज्ज्वलरागाश्च, अकौतुका:प्रौढाश्च'
मेसो पाई ‘प्रमदाः' -ी पडेल वधु छ. नि०, दी० । ३. 'वदितुम्' दी। ४. तत्रैव' ने स्थाने हर्षचरिते' नि०, दी० । ५. 'च' थुछे. नि..