________________
१२२
ધ્વન્યાલોક
स एवमुपनिबध्यमानोऽलङ्कारो रसाभिव्यक्तिहेतुः कवेर्भवति । उक्तप्रकारातिक्रमे तु नियमेनैव रसभङ्गहेतुः सम्पद्यते । लक्ष्यं च तथाविधं महाकविप्रबन्धेष्वपि दृश्यते बहुशः । तत्तु सूक्तिसहस्रद्योतितात्मनां महात्मनां दोषोद्घोषणमात्मन एव दूषणं भवतीति न विभज्य दर्शितम् ।
किन्तु रूपकादेरलङ्कारवर्गस्य येयं व्यञ्जकत्वे रसादिविषये 'लक्षणदिग्दर्शिता, तामनुसरन् स्वयं चान्यलक्षणमुत्प्रेक्षमाणो यद्यलक्ष्यक्रमप्रतिममनन्तरोक्तमेनं ध्वनेरात्मानमुपनिबध्नाति सुकविः समाहितचेतास्तदा तस्यात्मलाभो भवति महीयानिति ॥१९॥
क्रमेण प्रतिभात्यात्मा योऽनुस्वानसन्निभः । शब्दार्थशक्तिमूलत्वात् सोऽपि द्वेधा व्यवस्थितः ||२०||
अस्य विवक्षितान्यपरवाच्यस्य ध्वनेः संलक्ष्य क्रमव्यङ्ग्यत्वादनुरणनप्रख्यो य आत्मा सोऽपि शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति द्विप्रकारः ||२०||
ननु शब्दशक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तदिदानीं श्लेषस्य विषय एवापहृतः स्यात् ।
नापहृत इत्याह
आक्षिप्त एवालङ्कारः शब्दशक्त्या प्रकाशते ।
यस्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः ॥ २१॥
२१.१ यस्मादलङ्कारो न वस्तुमात्रं यस्मिन् काव्ये शब्दशक्त्या प्रकाशते स शब्दशक्त्युद्भवो ध्वनिरित्यस्माकं विवक्षितम् । वस्तुद्वये च शब्दशक्त्या प्रकाशमाने श्लेषः । यथा
१. नि०, दी० मा 'अपि शब्ने 'तथाविधमपि' सहीं भेड्यो छे.
२. 'लक्षणा' नि०, दी० ।
३. ‘यद्यलक्ष्यकमपतितमनन्तरोक्तमेव' नि०, दी० ।
४. 'तदस्यात्मलाभो' नि० ।
५. 'विवक्षितः' नि० दी० ।
६. 'प्रकाश्यमाने ' नि० ।