________________
११२
વન્યાલોક
यथा
कपोले पत्राली करतलनिरोधेन मृदिता .....- निपीतो निःश्वासैरयममृतहद्योऽधररसः । मुहुः कण्ठे लग्नस्तरलयति वाष्पः स्तनतटीं
प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥ रसाङ्गत्वे च तस्य लक्षणमपृथग्यत्मनिर्वय॑त्वमिति' । यो रसं बन्धुमध्यवसितस्य कवेरलङ्कारस्तां वासनामत्यूह्य यत्नान्तरमास्थितस्य निष्पद्यते स न रसाङ्गमिति । यमके च प्रबन्धेन बुद्धिपूर्वकं क्रियमाणे नियमेनैव यत्नान्तरपरिग्रह आपतति शब्दविशेषान्वेषणरूपः । .. अलङ्कारान्तरेष्वपि तत्तुल्यमिति चेत् नैवम् । अलङ्कारान्तराणि हि निरूप्यमाणदुर्घटनान्यपि रससमाहितचेतसः प्रतिभावतः कवेरहम्पूर्विकया परापतन्ति । यथा कादम्बयाँ कादम्बरीदर्शनावसरे । यथा च मायारामशिरोदर्शनेन विह्वलायां सीतादेव्या सेतौ ।
युक्तञ्चैतत् । यतो रसा वाच्यविशेषैरेवाक्षेप्तव्याः। तत्प्रतिपादकैश्च शब्दैस्तत्प्रकाशिनो .. वाच्यविशेषा एव रूपकादयोऽलङ्काराः तस्मान्न तेषां बहिरङ्गत्वं रसाभिव्यक्तौ । यमकदुष्करमार्गेषु तु तत् स्थितमेव । ___ यत्तु रसवन्ति कानिचिद्यमकादीनि दृश्यन्ते तत्र रसादीनामङ्गता, यमकादीनान्त्वङ्गितैव । रसाभासे चाङ्गत्वमप्यविरुद्धम् । अङ्गितया तु व्यङ्ग्ये रसे नाङ्गत्वं पृथक्प्रयत्ननिर्वय॑त्वाद् यमकादेः। अस्यैवार्थस्य संग्रहश्लोकाः
'रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित् । एकेनैव प्रयत्नेन निर्वय॑न्ते महाकवेः ॥
१. तटम् नि। २. 'लक्षणमक्षुण्णमपृथग्यत्नं निर्वर्त्यत इति' नि०, दी० । ३. 'यो' २॥ ५६ 'कवे' नी पछीछे... भ'यो' नथी. ४. 'स' नयी. A. ५. 'पिता' नि०, दी। ६. 'पृथग्यल' दी।