________________
-- वन्यालो समर्पकत्वं काव्यस्य यत्तु सर्वरसान् प्रति ।
स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः ॥१०॥ प्रसादस्तु स्वच्छता शब्दार्थयोः । स च सर्वरंससाधारणो गुणः । सर्वरचनासाधारणश्च । व्यङ्ग्यार्थापेक्षयैव मुख्यतया व्यवस्थितो मन्तव्यः ॥१०॥
श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः ॥११॥ अनित्या दोषाश्च ये श्रुतिदुष्टादयः सूचितास्तेऽपि न वाच्ये अर्थमात्रे, न च व्यङ्गये शृङ्गारव्यतिरेकिणि, शृङ्गारे वा ध्वनेरनात्मभूते' । किन्तर्हि ध्वन्यात्मन्येव शृङ्गारेऽङ्गितया व्यङ्ग्ये ते हेया इत्युदाहृताः । अन्यथा हि तेषामनित्यदोषतैव न स्यात् ॥११॥ एवमयमसंलक्ष्यक्रमद्योतो' ध्वनेरात्मा प्रदर्शितः सामान्येन ।
तस्याङ्गानां प्रभेदा ये प्रभेदा स्वगताश्च ये।
तेषामानन्त्यमन्योन्यसम्बन्धपरिकल्पने ॥१२॥ अङ्गितया व्यङ्ग्यो रसादिर्विवक्षितान्यपरवाच्यस्य ध्वनेरेक आत्मा य उक्तस्तस्याङ्गानां वाच्यवाचकानुपातिनामलङ्काराणां ये प्रभेदा निरवधयो ये च स्वगतास्तस्याजिनोऽर्थस्य रस-भाव-तदाभास-तत्प्रशमलक्षणा विभावानुभावव्यभिचारिप्रतिपादनसहिता अनन्ताः स्वाश्रयापेक्षया निःसीमानो विशेषास्तेषामन्योन्यसम्बन्धपरिकल्पने क्रियमाणे कस्य-चिदन्यतमस्याऽपि रसस्य प्रकाराः परिसंख्यातुं न शक्यन्ते किमुत सर्वेषाम् । ___ तथा हि-शृङ्गारस्याङ्गिनस्तावदाद्यौ द्वौ भेदौ । सम्भोगो विप्रलम्भश्च । सम्भोगस्य च परस्परप्रेमदर्शनसुरतविहरणादिलक्षणाः प्रकाराः । विप्रलम्भस्याप्यभिलाषाविरहप्रवासविप्रलम्भादयः । तेषां च प्रत्येकं विभावानुभावव्यभिचारिभेदः । तेषां च देशकालाद्याश्रयावस्थाभेद' इति स्वगतभेदापेक्षयैकस्य" तस्यापरिमेयत्वम् । किं पुनरङ्गप्रभेदकल्पनायाम् । ते ह्यङ्गप्रभेदाः प्रत्येकमणिप्रभेदसम्बन्धपरिकल्पने क्रियमाणे सत्यानन्त्यमेवोपयान्ति ॥१२॥
१. नि०, दी० भांश्चेति' ५। छे. २. नि मा 'न वाच्यार्थमात्रे, न च व्यङ्ग्ये, शृङ्गारे, शृङ्गारव्यतिरेकिणि वा ध्वनेरनात्मभावे' ५४ छ. दी० wi ___ 'ध्वनेरनात्मभूते' मां भूते' ने स्थान भावे' us छे. ३. 'द्योत्यध्वनेः' नि०। ४. 'शृङ्गारस्यैवाङ्गिनः' नि० दी०। ५. 'भेदाः' नि०, दी। ६. 'भेदाः' नि०, दी०। ७. 'अपेक्षयैव' नि० दी०। ८. 'कल्पनया' नि०, दी०। ९. ते हि प्रभेदाः' दी० ।