________________
जगन्नाथपण्डितराजः ।
अद्यावधि ज्ञाताः पण्डितराजप्रणीता प्रन्यास्वेते(१) अमृतलहरी-यमुनास्तुतिरूपोऽयं ग्रन्थः काव्यमालायां मुद्रितः.
(२) आसफविलासः-अत्र नव्वाबासफखानस्य वर्णनमस्ति. रसगङ्गाधरेऽपि पद्यद्वयमासफनामाङ्कितं समुपलभ्यते, तचास्मादेव समुद्धतं स्यात्. ग्रन्थोऽयमद्यापि नास्माभिरुपलब्धः. केवलं पूर्व टिप्पण्यामुद्धृतं गद्यमलवरमहाराजाश्रितपण्डितभवानन्दोदयानन्दरामचन्द्रशर्मभिलिखिला पूर्वतरे वर्षे प्रहितमासीत्. अस्मत्समीपेऽप्ययं ग्रन्थः संपूर्णों नास्तीत्यपि तैरुक्तम.
(३) करुणालहरी-विष्णुस्तुतिरूपा काव्यमालायां मुद्रिता. (४) चित्रमीमांसाखण्डनम्-अत्राप्पयदीक्षितकृतचित्रमीमांसाया दूषणानि . संकलितानि सन्ति. काव्यमालायां मुद्रितम्.
(५) जगदाभरणम्-अत्र शहाजहानसूनोर्दाराशिकोहस्य स्तुतिरस्ति. किंतु प्राणाभरणसमानमेवैतत्काव्यम्. प्रायः प्राणनारायणनामस्थळे दाराशाहस्य नाम न्यस्तमस्ति. अस्यैकं पुस्तकं कोटानगरनरेन्द्राश्रितकैलासवासिगङ्गावल्लभपण्डितसमीपे दृष्टमासीत्,
(६) पीयूषलहरी-इयं गङ्गालहरीनाम्ना सुप्रसिद्धा सदाशिवचतुर्भुजरामचन्द्रादिकृतकतिपयटीकासमेता सुलभा मुद्रिता च.
(७) प्राणाभरणम्-अत्र कामरूपदेशाधिपतेः प्राणनारायणमहीभृतो वर्णनमस्ति. मुद्रितं चैतत्काव्यमालायाम्. एतट्टिप्पणमपि पण्डितराजकृतमेवास्ति.
(८) भामिनीविलासः-अयं पण्डितराजप्रणीतपद्यसंग्रहरूपो ग्रन्थः सर्वत्र सुलभ एव, मुद्रितश्च बहुवारम्. मोडकोपाह्वपण्डिताच्युतरायप्रणीता भामिनीविलासटीका समूला निर्णयसागरयन्त्रालये मुद्रिता.
(९) मनोरमाकुचमर्दनम्-अयं ग्रन्थो भट्टोजिदीक्षितप्रणीताया मनोरमायाः खण्डनरूपो विरलप्रचार एव. तत्रास्माभिरुपलब्धस्य पुस्तकस्य प्रारम्मे"लक्ष्मीकान्तपदाम्भोजमानम्य श्रेयसां पदम् । पण्डितेन्द्रो जगन्नाथः स्यति गर्व गुरुद्रुहाम् ॥' इह केचिन्निखिलविद्वन्मुकुटमयूखमालालालितचरणकमलानां गीर्वाणगणगौरवग्राममांसलमहिममण्डिताखण्डमहीमण्डलानां शेषवंशावतंसानां श्रीकृष्णपण्डितानां चिरायार्चितयोः पादुकयोः प्रसादासादितशब्दानुशासनास्तेषु च पारमेश्वरं पदं प्रयातेषु कलिकालवशंवदीभवन्तस्तत्रभवद्भिल्लासितं प्रक्रियाप्रकाशमाशयानववेधनिबन्धनिवं( नवबोधनिबन्धनै )दूषणैः स्वयं निर्मितायां मनोरमायामाकुल्यकार्षः - १. भट्टोजिदीक्षितानाम्. २. भट्टोजिदीक्षिताः. ३. अयमेव शेषश्रीकृष्णपण्डितः कंसवध-पारिजातहरणयोः कर्तेति भाति, यतः कंसवधप्रस्तावनायांमप्यात्मनो वैयाकरणतां प्रकटयति, अथ च समयेऽपि साम्यमस्तीति सुधीभिर्विचारणीयम्. ४. शेषश्रीकृष्णैः. ५. प्रक्रियाप्रकाशःप्रक्रियाकौमुदीटीका.