________________
रसगङ्गाधरः।
वाच्यम् । यादृशस्य प्रतिनायकोत्कर्षवर्णनस्य तदभिभावकनायकोत्कर्षाङ्गतासंपादकत्वं तादृशस्येष्टत्वात् । तद्विरोधिन एव निषेध्यत्वात् । च प्रतिपक्षस्य प्रकृतापेक्षया वर्ण्यमानोऽप्युत्कर्षः खाश्रयहन्तृतामात्रादेव प्रकृतगतमुत्कर्षमतिशाययेत् , अतो न दोषावह इति वाच्यम् । एवं हि सति महाराजं कमपि विषशरक्षेपमात्रेण व्यापादितवतो वराकस्य शबरस्येव प्रकृतस्य नायकस्य न कोऽप्युत्कर्षः स्यादिति । तथा रसालम्बनाश्रययोरनुसंधानमन्तरान्तरा न चेद्दोषः । तदनुसंधानाधीना हि रसप्रतिपत्तिधारा तदननुसंधाने विरता स्यात् । एवं प्रकृतरसानुपकारकस्य वस्तुनो वर्णनमपि प्रकृतरसविरामहेतुत्वाद्दोष एव । अनौचित्यं तु रसभङ्गहेतुत्वात्परिहरणीयम् । भङ्गश्च पानकादिरसादौ सिकतादिनिपातजनितेवारुन्तुदता । तच्च जातिदेशकालवर्णाश्रमवयोवस्थाप्रकृतिव्यवहारादेः प्रपञ्चजातस्य तस्य तस्य यल्लोकशास्त्रसिद्धमुचितद्रव्यगुणक्रियादि तद्भेदः । जात्यादेरनुचितं यथा—गवादेस्तेजोबलकार्याणि पराक्रमादीनि, सिंहादेश्व साधुभावादीनि । स्वर्गे जराव्याध्यादि, भूलोके सुधासेवनादि । शिशिरे जलविहारादीनि, ष्मे वह्निसेवा । ब्राह्मणस्य मृगया, बाहुजस्य प्रतिग्रहः, शूद्रस्य निगमाध्ययनम् । ब्रह्मचारिणो यतेश्च ताम्बूलचर्वणम् , दारोपसंग्रहः (बालवृद्धयोः स्त्रीसेवनम् , यूनश्च विरागः । दरिद्राणामाव्याचरणम् , आढ्यानां च दरिद्राचारः । प्रकृतयो दिव्याः, अदिव्याः, दिव्यादिव्याश्च । धीरोदात्तधीरोद्धतधीरललितधीरशान्ता उत्साहक्रोध
त्यर्थः । ननु सर्वत्रोत्कर्षसंपादकलं नोक्तवैषम्यमित्याशयेन शङ्कते-न चेति । स्वाश्र. येति । उत्कर्षाश्रयप्रतिपक्षकर्मकहननकर्तृवमात्रादेवेत्यर्थः । मात्रपदेनोक्तवैषम्यव्यावृत्तिः । विषेति । तत्संबद्धबाणेत्यर्थः । वराकस्य दीनस्य । दोषान्तरमाह-तथेति । रसस्यालम्बनाश्रययोरित्यर्थः । अन्तरान्तरा मध्येमध्ये। तदुपपादयति-तदन्विति । तयोस्ताहशान्वित्यर्थः । दोषान्तरमाह-एवमिति । दोषान्तरमाह-अनौचीति । तुरुक्तप्रकारव्यवच्छेदाय । तदाह-रसेति । अत एवाह-भङ्गश्चेति । अरुन्तुदता मर्मच्छेदिता। तच्चानौचित्यं च । प्रपञ्चजातस्य प्रपञ्चसमूहस्य । बाहुजस्य क्षत्रियस्य । निगमो वेदः । संग्रहः संग्रहश्च । प्रकृत्यन्तरमाह-धीरोदात्तेति । धीरोदात्तादीनां चतुर्णा चवारि यथासंख्येनाह-उत्साहेति । प्रकृत्यन्तरमाह-उत्तमेति । तत्र तासां मध्ये । सर्वत्र