________________
काव्यमाला।
'रतिवादिविषया व्यभिचारी तथाञ्जितः । . भावः प्रोक्तस्तदाभासा ह्यनौचित्यप्रवर्तिताः ॥ इति हि प्राचां सिद्धान्तात् । न च तर्हि कामिनीविषयाया. अपि रतेर्भावत्वमस्तु, रतित्वाविशेषात्, अस्तु वा भगवद्भक्तरेव स्थायित्वम् , कामिन्यादिरतीनां च भावत्वम् , विनिगमकाभावात् , इति वाच्यम् । भरतादिमुनिवचनानामेवात्र रसभावत्वादिव्यवस्थापकत्वेन खातत्र्ययोगात् । अन्यथा पुत्रादिविषयाया अपि रतेः स्थायिभावत्वं कुतो न स्यात् , न स्थाद्वा कुतः शुद्धभावत्वं जुगुप्साशोकादीनाम् , इत्यखिलदर्शनव्याकुली स्यात् । रसानां नवत्वगणना च मुनिवचननियन्त्रिता भज्येत, इति यथाशास्त्रमेव ज्यायः। • एतेषां परस्परं कैरपि सहाविरोधः कैरपि विरोधः । तत्र वीरशृङ्गारयोः, शृङ्गारहास्ययोः, वीराद्भुतयोः, वीररौद्रयोः, शृङ्गाराद्भुतयोश्चाविरोधः । शृङ्गारंबीभत्सयोः, शृङ्गारकरुणयोः, वीरभयानकयोः, शान्तरौद्रयोः, शान्तशृङ्गारयोश्च विरोधः । तत्र कविना प्रकृतरसं परिपोष्टुकामेन तदभिव्यञ्जके काव्ये तद्विरुद्धरसाङ्गानां निबन्धनं न कार्यम् । तथा हि सति तदभिव्यक्तौ विरुद्धः प्रकृतं बाधेत । सुन्दोपसुन्दन्यायेन चोभयोरुपहतिः स्यात् । यदि तु विरुद्धयोरपि रसयोरेकत्र समावेश इष्यते तदा विरोधं परिहृत्य विधेयः । तथा हि-विरोधस्तावविविधः स्थितिविरोधो ज्ञानविरोधश्च । आद्यस्तदधिकरणावृत्तितारपः । द्वितीयस्तज्ज्ञानप्रतिबद्धज्ञानकत्वलक्षणः । तत्राधिकरणान्तरे विरोधिनः स्थापने
माह-भगेति । अजितोऽभिव्यक्तो व्यभिचारिभावः । तथाशब्दश्चार्थे । प्राचां प्रकाशकृताम् । अतिप्रसङ्गं दत्त्वा वैपरीत्यमाह-अस्तु वेति । अत्र शस्त्रे । अन्यथा तद्वचनानामव्यवस्थापकत्वे । शुद्धेति । स्थायिभावखानालिङ्गितव्यभिचारिभावत्वमित्यर्थः । दर्शनं शास्त्रम् । भक्तिरसस्यातिरिकत्वाङ्गीकारे दोषान्तरमाह-रसानामिति । नियत्रिता नियमिता । एतेषां रसानाम् । विरोध इति । अन्ये तूदासीनाः । यथा शान्तादुतौ, वीरवीभत्सावित्यादीति बोध्यम् । तदभीति । विरुद्धरसागामीत्यर्थः । तस्य बाधकत्वे नियामकाभावादाह-सुन्दोपेति । एकत्र काव्ये । तत्र तयोर्मध्ये । विरो