________________
काव्यमाला ।
गुणाधानमित्युल्लास एव । विशेषोक्त्यैव गतार्थत्वादवज्ञा नालंकारान्तर
मित्यपि वदन्ति ।
५१०
इति रसगङ्गाधरेऽवज्ञाप्रकरणम् ।
[ अथानुज्ञा - ]
उत्कटगुणविशेषलालसया दोषत्वेन प्रसिद्धस्यापि वस्तुनः
प्रार्थनमनुज्ञा ॥
यथा—
'प्रणिपत्य विधे भवन्तमद्धा विनिबद्धाञ्जलिरेकमेव याचे । जनुरस्तु कुले कृषीवलानामपि गोविन्दपदारविन्दभाजाम् ॥' अत्र हरिभक्तिलालसया कृषीवल कुलजन्मनः प्रार्थनम् । [ इति रसगङ्गाधरेऽनुज्ञाप्रकरणम् । ]
[ अथ तिरस्कारः - ]
एवम् -
दोषविशेषानुबन्धाद्गुणत्वेन प्रसिद्धस्यापि द्वेषस्तिरस्कारः ॥
' श्रियो मे मा सन्तु क्षणमपि च माद्यद्गजघटामदभ्राम्यद्भृङ्गावलिमधुरसंगीतसुभगाः । निमग्नानां यासु द्रविणरसपर्याकुलहृदां सपर्यासौकर्यं हरिचरणयोरस्तमयते ॥'
अत्र हरिचरणभजनच्युतिभयाद्राज्यसुखस्य तिरस्कारः । अमुं च तिरस्कारमलक्षयित्वानुज्ञां लक्षयतः कुवलयानन्दकृतो विस्मरणमेव शरणम् । अन्यथा 'भवद्भवनदेहली -' इति तदुदाहृतपद्ये 'किमित्यमरसंपदां' इत्यंशे तिरस्कारस्य स्फुरणानापत्तेः । ननु कथमनयोरलं - कारयोः संभवः । यावता प्रार्थनमिच्छा तिरस्कारश्च द्वेषः । तत्र दोषे इष्टसाधनताज्ञानरूपकारणाभावादिच्छा न युक्ता । गुणे च द्विष्टसाधनता -
यथा
प्राग्वदाह – अथेति । अद्धेति स्फुटावधारणयोः । तत्त्वातिशययोरित्येके ॥ [ इति रसगङ्गाधरमर्मप्रकाशेऽनुज्ञाप्रकरणम् ॥ ]