________________
• ५०२
काव्यमाला ।
"
तु ललितं पृथगलंकारः स्यात् लुप्तोपमादिरप्युपमादेः पृथक्स्यात् । त्वदुक्तयुक्तेस्तुल्यत्वात् । नन्वतिशयोक्तिरेवं सति रूपक एव विलीयेत । विषयविषयिणोर्द्वयोरप्युपादाने श्रौतं रूपकम् विषयमात्रोपादाने त्वार्थमित्यस्यापि सुवचत्वात् । सत्यम् । यत्र ह्यलंकारशरीरमुभयत्राप्यविलक्षणं तत्रैकालंकारव्यपदेशो युक्तः । यथासादृश्यं निष्पाद्यमानमुपमाशरीरं लुप्तोपमादिष्वविलक्षणमेवेति तत्राप्युपमयैव व्यपदेशो न्याय्यः, नालंकारान्तरेण । लुप्तत्वपूर्णत्वादिस्तु न तच्छरीरनिविष्ट इति स्वयं व्यावर्तमानोऽपि नोपमात्वव्यावर्तकः तथान्यत्रापीति स्थितिः । एवं च विषयतावच्छेदकरूपेण भाते विषये विषयितावच्छेदकावच्छिन्ना मेदस्य रूपकशरीरस्य विषयतावच्छेदकरूपेणाभासमानविषयात्मकादतिशयोक्तिखरूपाद्विलक्षणत्वेन द्वयोरेकालंकारत्वं न युक्तम् । निदर्शनाललितयोस्तु स्वरूपावैलक्षण्यं प्रदर्शितमित्येकालंकारत्वमेव” इत्याहुः ।
'आहार्थनिश्चयविषयीभूतो विषये विषय्य भेदो रूपकखरूपमुच्यते । न निवेश्यते च विषयतावच्छेदकादिगौरवात् । एवं चातिशयोक्तेर्निगीर्याध्यवसानरूपाया रूपक भेदत्वमस्तु नाम । का नो हानिः । एवमपतेरपि । विषयतावच्छेदकनिह्नवानिह्वनिगरणानि रूपकस्यैवावान्तरविशेषाः' इति तु नव्याः । एतन्मतरीत्या तु ललितस्य निदर्शनातः पृथगलंकारत्वं मनोरथललितमेवेति । एवं च ' तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्' इत्यत्र निदर्शना साधु संगच्छते । क्क सूर्येत्यादिना स्वमतिसूर्यप्रभववंशयोरत्यन्ताननुरूपत्वकथनोत्तरमुडुपकरण कसागरतरणेच्छाया अप्रकृतायाः कथनेन तादृशमतिकरणकवर्णनेच्छायाः प्रकृतायाः प्रतिपत्तेः ।
यत्तु—“अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य" इति पद्ये कतमो देशस्त्वया परित्यक्त इति प्रस्तुतार्थमनुपन्यस्य वसन्तमुकस्य वनस्य दशामनायीति तत्प्रतिबिम्बभूतार्थमात्रोपन्यासाल्ललितालंकारः" इति कुवलयानन्दकार आह । तदत्यन्तमसंगतम् । अत्र कथमन्यस्य दशामन्यो नेतुं शक्य इति वसन्तमुक्तवनदशां निःश्रीकस्वलक्षणामनायीति हि पर्यवसन्नोऽर्थः । तत्र निःश्रीकत्वरूपकार्यद्वारा का