________________
जगन्नाथपण्डितराजः ।
00
“जगन्नाथपण्डितस्तैलङ्गदेशाज्जयपुरे समागत्य पाठशालां स्थापितवान्, पराजित - air विवादे तत्र दिल्लीनगरादागतं 'काजी'ति प्रसिद्धं कंचन यवनपण्डितं सत्वरमेव तन्मतग्रन्थानधीत्य. ततश्च 'काजी' मुखात्तद्विद्याबुद्धिचमत्कारमाकर्ण्य परितुष्यता दिल्लीनरेन्द्रेण पण्डितो जयपुरात्समाहूतः, सभाजितश्च तत्र च कस्यांचन येवनकन्यायामासक्तो बादशाहानुग्रहेण तां परिणीय तथा सह सुखेनातिवाहितवान्यौवनं बादशाहसमाश्रय एव. वार्धके च वाराणस्यां गतो ' यवनी संसर्गदूषितोऽयम्' इत्यप्पयदीक्षितादिपण्डितैस्तिरस्कृतो ज्ञातिबहिष्कृतश्च गङ्गातटे गत्वा सोपानपङ्क्तिशिखरे समुपविष्टस्तत्क्षणनिर्मितैर्भक्तिभरितैः पद्यैर्गङ्गां स्तोतुमुपचक्रमे भक्तवत्सला गङ्गापि प्रतिश्लोकमेकैकं सोपानमधिरोहन्ती द्वापञ्चाशन्मिते श्लोके प्रणीते प्राप्तवती पण्डितराजोपकण्ठम्, प्लावितवती च सत्वरमेव यवनीसमेतमेनम् ततश्चासूयामत्सराभ्यां दूषिता वाराणसेयाः पण्डितास्तादृशं पण्डितराजप्रभावमालोक्यातीव विलक्षा बभूवुः" इत्येके वदन्ति. अपरे त्वेवं कथयन्ति — “दिल्लीन रेन्द्र कृपापात्रतां प्राप्तस्य तत्प्रसादाल्लब्धश्रियस्वारुव्यतिमिरतिरस्कृतविवेकालोकस्य जगन्नाथपण्डितस्य बभूव कस्यांचन यवनयुवत्यामा - सक्तिः सा च कियत्कालानन्तरं पेंश्चत्वं गता. ततस्तद्विरहातुरः पण्डितोऽपि दिल्लीं परित्यज्य वाराणस्यामागतस्तदाचरणमा कर्णितवद्भिस्तत्रत्यैः पण्डितैरनादृतो दुराचरणानु
१. जयपुरे तु महाराष्ट्रदेशस्थब्राह्मणः सम्राड्जगन्नाथपण्डितो भिन्न एवासीत्, यत्संततिरद्यापि जयपुरसमीपे ब्रह्मपुर्यां वर्तते, यश्च महाराजसवाईजयसिंहाज्ञया १७३१ निस्ताब्दे सिद्धान्तसम्राजम्, सिद्धान्तकौस्तुभम्, पञ्चदशाध्यायात्मकस्य ' ग्रीक 'भाषा - निबद्धस्य 'यूक्लीड' प्रणीतस्य ग्रन्थस्य रेखागणितनामकं संस्कृतानुवादं च विरचितवान्. महाराजसवाई जयसिंहस्तु १६८८ ख्रिस्ताब्दे जन्म लेमे, १७०० ख्रिस्ताब्दे राज्य सिंहासनमधिरूढः, १७१४ ख्रिस्ताब्देऽश्वमेधयागं कृतवान् १७२८ ख्रिस्ताब्दे च परलोकं जगामेति जयपुरेतिहासे समुपलभ्यते. २. ' यवनीरमणी विपदः शमनी कमनीयतमा नवनीतसमा । उहिऊहिवचोऽमृतपूर्णमुखी स सुखी जगतीह यदङ्कगता ॥', ' यवनी नवनीतकोमलाङ्गी शयनीये यदि नीयते कदाचित् । अवनीतलमेव साधु मन्ये न वनी माघवनी विनोदहेतुः ॥', 'न याचे गजालिं न वा वाजिराजिं न वित्तेषु चित्तं मदीयं कदापि । इयं सुस्तनी मस्तकन्यस्तहस्ता लवङ्गी कुरङ्गीदृगङ्गीकरोतु ॥' इत्याद्याः प•ण्डितराजप्रणीता यवन्यासक्त्यनुमापकाः श्लोकाः सन्तीति केचिद्वदन्ति, परमेते पण्डि - तराजश्चन्थेष्वस्मद्दृष्टेषु नोपलभ्यन्ते. ३. सैव खुतिरधुना 'गङ्गालहरी' नाम्ना प्रसिद्धा सर्वत्र भागीरथीभक्तैः पठ्यते . ४. अत्र भामिनीविलासस्य तृतीयो विलासः प्रमाणमिति वदन्ति, तैस्तु रसगङ्गाधरे करुणप्रकरणे समुदाहृतात् 'अपहाय सकलबान्धवचिन्तामुद्वास्य गुरुकुलप्रणयम् | हा तनय विनयशालिन्कथमिव परलोकपथिकोऽभूः ॥ इत्यस्मात्पद्यात्पण्डितस्य पुत्रमरणमपि कुतो नानुमीयते ?
,