________________
रसगङ्गाधरः। कदर्यवस्तुविलोकनजन्मा विचिकित्साख्यश्चित्तवृत्तिविशेषो जुगुप्सा ॥
एवमेषा स्थायिभावानां लोके तत्तन्नायकगतानां यान्यालम्बनतयोद्दीपनतया वा कारणत्वेन प्रसिद्धानि तान्येषु काव्यनाट्ययोय॑ज्यमानेषु विभावशब्देन व्यपदिश्यन्ते ॥
विभावयन्तीति व्युत्पत्तेः । यानि च कार्यतया तान्यनुभावशब्देन ॥ अनु पश्चाद्भाव उत्पत्तिर्येषाम् । अनुभावयन्तीति वा व्युत्पत्तेः । यानि सह चरन्ति तानि व्यभिचारिशब्देन ॥ तत्र शृङ्गारस्य स्त्रीपुंसावालम्बने । चन्द्रिकावसन्तविविधोपवनपवनरहःस्थानादय उद्दीपनविभावाः। तन्मुखावलोकनतद्गुणश्रवणकीर्तनादयोऽन्ये सात्त्विकभावाश्चानुभावाः । स्मृतिचिन्तादयो व्यभिचारिणः ।. . - करुणस्य बन्धुनाशादय आलम्बनानि । तत्संबन्धिगृहतुरगाभरणदर्शनादयस्तत्कथाश्रवणादयश्चोद्दीपकाः । गात्रक्षेपाश्रुपातादयोऽनुभावा ग्लानिक्षयमोहविषादचिन्तौत्सुक्यदीनताजडतादयो व्यभिचारिणः । __ शान्तस्यानित्यत्वेन ज्ञातं जगदालम्बनम् । वेदान्तश्रवणतपोवनतापसदर्शनाद्युद्दीपनम् । विषयारुचिशत्रुमित्राद्यौदासीन्यचेष्टाहानिनासाग्रदृष्ट्यादयोऽनुभावाः । हर्षोन्मादस्मृतिमत्यादयो व्यभिचारिणः ।
रौद्रस्यागस्कृत्पुरुषादिरालम्बनम् । तत्कृतोऽपराधादिरुद्दीपकः । वधबन्धादिफलको नेत्रारुण्यदन्तपीडनपरुषभाषणशस्त्रग्रहणादिरनुभावः । अमर्षवेगौग्यचापलादयः संचारिणः ।। ___ एवं यस्याश्चित्तवृत्तेर्यो विषयः स तस्या आलम्बनम् । निमित्तानि चोद्दीपकानीति बोध्यम् ।
लक्षयति-एवमिति । स्थायिभाववदित्यर्थः । एषु स्थायिभावेषु । कार्यतया स्थायिभावानां प्रसिद्धानीयस्यानुषङ्गः । शब्देन, व्यपदिश्यन्त इत्यनुषङ्गः । एवमप्रेऽपि । लाघवादाह-अनुभावयतीति । तत्र तेषां मध्ये । तन्मुखेति । अन्योन्यमुखेत्यर्थः । एवमग्रेऽपि । अन्ये सात्त्विकेति । क्षेपस्त्यागः । चेष्टाहानिर्निश्चेष्टवम् । आगस्कृदप