________________
१७२
काव्यमाला।
तु वैपरीत्यम् । अस्मिन्नलंकारे समर्थ्यसमर्थकभाव आर्थः शाब्दश्वालंकारताप्रयोजकः । न तु काव्यलिङ्गे हेतुहेतुमद्भाव इवार्थ एव । हि यत् यतः इत्यादेः प्रतिपादकस्याभावे आर्थः । स तु कथितः 'मूछों गतो मृतो वा' इत्यत्र । तत्सत्त्वे शाब्दः । सोऽपि 'विपरीतग्रहणा हि' इत्यत्र । यथा वा
'भवत्या हि व्रात्याधमपतितपाखण्डपरिष
त्परित्राणस्नेहः श्लथयितुमशक्यः खलु यथा । ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगति
खभावोऽयं सर्वैरपि खलु यतो दुष्परिहरः॥' अत्र भगवत्या भागीरथ्याः स्तोतुश्च वृत्तान्तयोर्विशेषयोः समर्थकस्य चतुर्थचरणप्रतिपाद्यस्य सामान्यस्य समर्थकता यत इत्यनेनोच्यते । ननु सामान्यार्थो विशेषार्थसमर्थक इत्यस्य सामान्यव्याप्तिज्ञानं विशेषानुमितिप्रयोजकमित्येवार्थः पर्यवस्यति । अन्यथा खभावादेर्दुष्परिहरत्वादिव्यभिचारज्ञानदशायां तादृशार्थस्य समर्थकत्वापत्तेः । प्रतीतिविशदीकरणं समर्थकेन क्रियते, नानुमानमिति प्राचीनप्रवादस्त्वविचारितरमणीय इति नायं भेदोऽनुमानादतिशेते । अतिशेते च विशेषार्थेन सामान्यार्थसमर्थनरूपोऽधिकरणविशेषारूढसहचरज्ञानाहितव्याप्तिज्ञानदाात्मेति चेत्, कविः शृणोति । न चैवमपि विशेषस्य सामान्यसमर्थनं नार्थान्तरन्यासभेदो भवितुमीष्टे । प्रागुक्तोदाहरणालंकारेणैव गतार्थत्वादिति वाच्यम् । इवादिप्रयोगाभावस्यैवात्र ततो वैलक्षण्यात् । एवमपि वाचकाभावादार्थोऽयमुदाहरणालंकारोऽस्तु, न त्वर्थान्तरन्यासभेद इति चेत्, इदमस्ति वैलक्षण्यम्सामान्यार्थसमर्थकस्य विशेषवाक्यार्थस्य द्वयी गतिः । अनुवाद्यांशमात्रे विशे. षत्वम् , विधेयांशस्तु सामान्यगत एवेत्येका । अनुवाद्यविधेयोभयांशेऽपि विशेषत्वमित्यपरा । तत्राद्या उदाहरणालंकारस्य विषयः, द्वितीया त्वर्थान्तरन्यासभेदस्य । एवं च 'मूच्छी गतो मृतो वा निदर्शनं पारदोऽत्र रसः' इत्युदाहरणालंकारगते विशेषे उपकारमेव कुरुत इति प्राचीनसामान्यार्थगतैव यथोक्तरूपेण क्रिया विधेया । 'रोगानपहरति पारदः सकलान्' इत्यर्थान्तरन्यासगते तु पृथगुपातविशेषरूपेणेति । लक्षणे त्वस्य विशेषणे