________________
रसगङ्गाधरः ।
१६९ वान्न प्रात्यक्षिकः । अनुमितिसामग्र्या बलवत्त्वान्न शाब्दः । अत एव न मानसोऽपीति सत्यं काव्यलिङ्गं प्रकृतार्थोपपादकम् । उपपत्तिश्चानुमितिरेव । व्यभिचारित्वेऽपि हेतोस्तदानीं व्यभिचारास्फूर्तेः । तथापि नानुमानालंकारस्यात्र विषयः । श्रोतुर्यल्लिङ्गकानुमितिबुबोधयिषया कविः काव्यं निर्मिमीते तल्लिङ्गकमनुमानालंकृतेर्विषयः काव्यव्यापारगोचरीभूतानुमितिकरणमिति निष्कर्षः । काव्यलिङ्गज्ञानजानुमितिस्तु न कविना श्रोतुर्बुबोधयिषिता । अत एवासौ न काव्यव्यापारगोचरः श्रोतुः केवलं कारणवशाज्जायत इति नास्त्येवात्र जायमानायामप्यनुमितावनुमानालंकृतेर्विषयः । तस्मिन्मणिबातमहान्धकारे' इति वक्ष्यमाणपद्ये तु बुबोधयिषितैवानुमितिरित्यस्त्यनुमानविषयः । अपि च कविनिबद्धप्रमात्रन्तरनिष्ठा ह्यनुमितिरनुमानालंकृतिं प्रयोजयति । श्रोतृनिष्ठा महावाक्यार्थनिश्चयानुकूला तु काव्यलिङ्गमिति महान्विशेषः । एवं च काव्यलिङ्गातिप्रसङ्गवारणायानुमानलक्षणप्रविष्टानुमितौ काव्यव्यापारगोचरत्वं विशेषणं देयम् । यत्तु 'समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थकम्' इति कुवलयानन्दकारो लक्षणमकार्षीत्तदपि सामान्यविशेषभावानालिङ्गितत्वविशेषणरहितं चेदर्थान्तरन्यासे स्यादेवातिप्रसक्तम् । यदपि,
“यत्त्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवरं
मेधैरन्तरितः प्रिये तव मुखच्छायानुकारः शशी । येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता___ स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥' 'मृग्यश्च दर्भाङ्करनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् ।
व्यापरयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥' . पूर्वत्र पादत्रयार्थोऽनेकवाक्यार्थरूपश्चतुर्थपादार्थे हेतुः । उत्तरत्र तु संबोधने व्यापारयन्त्य इति मृगीविशेषणत्वेनानेकपदार्थों हेतुरुक्तः" इत्य
मात्रमवधारणे । उपसंहरति एवं चेति । अन्विति । यत इत्यादिः । न्यासे स्यादेवातिप्रसक्तमिति । प्राचीनमते समर्थनीयेत्यनेनैव वारणात् । मतान्तरे तु सामान्चविशेषभावनालिङ्गितत्वं विशेषणं देयमित्यर्थान्तरन्यासप्रकरणे तद्न्य एव स्फुटम् ।
'
सं