________________
रसगङ्गाधरः ।
४४५
साधनवस्तुप्राप्तिः परस्य सुखसाधनवस्तुप्राप्तिर्दुःखसाधनवस्तुनाशश्चेति त्रिवि - धम् । खस्येष्टाप्राप्तिस्तु गणितेति नानिष्टे गण्यते । तेनानिष्टप्राप्तिघटिते भेदद्वयेऽपि त्रैविध्यम् ।
दिङ्मात्रं तूपदर्श्यते— उदाहरणम्'दूरीकर्तुं प्रियं बाला पद्मेनाताडयद्रुषा ।
स बाणेन हतस्तेन तामाशु परिषखजे ॥' अत्र प्रियदूरीकरणरूपेष्टार्थं प्रयुक्तेन पद्मताडनरूपेण कारणेन प्रियदूरीकरणं तु दूरापास्तम्, प्रत्युत तत्कर्तृकपरिष्वङ्गरूपानिष्टस्योत्पत्तिः ।
यथा वा-
'खञ्जनदृशा निकुञ्जं गतवत्या गां गवेषयितुम् । अपहारिताः समस्ता गावो हरिवदनपङ्कजालोकात् ॥' पूर्वोदाहरणे वास्तवमेवानिष्टम्, इह तु सकलेन्द्रियहरणं यद्यपि लोके - ऽनिष्टप्रायमेव । तथापि तत्पुरस्कारेणेह चमत्कृतिराहित्याद्गोहरणपुरस्कारेणैव चमत्कारात् । श्लेषमूलका भेदाध्यवसाने सकलसुरभिहरणरूपानिष्टात्मना स्थितं तदिति विशेषः । गवेष्यमाणगवीरूपेष्टाप्राप्तेरनुक्तत्वात्केवलाष्टप्राप्तेरिदमुदाहरणम्, पूर्वं तूभयस्येति विशेषो न वाच्यः । समस्तगवीहरपोन सामान्येन गवेष्यमाणाया अपि गोरपहारस्य प्रत्ययात् ।
एवमिष्टाप्राप्त्यनिष्टप्राप्त्युभयकृता संसर्गस्याननुरूपता सामान्येनोक्ता । पूर्वोक्तचतुर्भेदाया इष्टाप्राप्तेः पूर्वोक्तत्रिभेदेनानिष्टेन संसृष्टावियमेव द्वादशविधा । तत्र स्वस्य सुखसाधनवस्त्वप्राप्तिदुःखसाधनवस्तुप्राप्तिरूप उभयभेदस्तावदुदाहृतः । स्वस्य दुःखसाधनवस्त्वनिवृत्तिदुःखान्तरसाधनावातिरूपद्वयं यथा
'रूपारुचिं निरसितुं रसयन्त्या हरिमुखेन्दुलावण्यम् ।
सुदृशः शिव शिव सकले जाता सकलेवरे जगत्यरुचिः ॥'
अत्र यद्यपि ब्रह्मदर्शनोत्तरं जातायामपि जगति वैराग्यलक्षणायामरुचौ भगवद्वदनलावण्यदर्शनाद्रूपारुचिर्विलक्षणा या काचित्सा निवृत्तैवेति वक्तुं शक्यते, तथापि जगदरुचित्वेन सकलान्चीनामभेदाध्यवसायाद्रूपा
३८ रस०