________________
रसगङ्गाधरः।
सिता या पीडा तन्निष्ठकार्यतानिरूपितकारणताया इति तदवच्छिन्नप्रतियोगिताकाभावसामानाधिकरण्येन कार्योत्पत्तिवर्णनेऽपि नात्र विभावनाप्र• सङ्गः । यदि तु 'खला विनैव दहनं दहन्ति जगतीतलम्' इति क्रियते तदा भवत्येव विभावना । एवम्
'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥' इति परकीयपद्येऽतिशयोक्त्युदाहरणेऽप्यस्त्येव विभावना। परंतु 'क मलमनम्भसि' इत्यंशे शाब्दी । 'कमले च' इत्यादौ त्वार्थीति संक्षेपः ।
, इति रसगङ्गाधरे विभावनाप्रकरणम् । अथ विशेषोक्तिः-- प्रसिद्धकारणकलापसामानाधिकरण्येन वर्ण्यमाना कार्यानुत्पत्तिर्विशेषोक्तिः॥
तत्र सत्यपि कारणसमवधाने कार्यस्यानुत्पत्तौ विरोधः प्रतिभासमानः प्रसिद्धतरकारणवैकल्यधिया निवर्तते । यथा
'उपनिषदः परिपीता गीतापि च हन्त मतिपथं नीता । तदपि न हा विधुवदना मानससदनाबहिर्याति ॥' यथा वा'प्रतिपलमखिलाल्लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि ।
हा हतकं चित्तमिदं विरमति नाद्यापि विषयेभ्यः ।।' अत्रोपनिषदर्थविमर्श सकललोकानित्यत्वज्ञाने प्रसिद्धविरतिहेतौ सत्यपि विरत्यनुत्पत्तिवर्णनाद्रागाधिक्यरूपं प्रतिबन्धकं प्रतीयते । इयमनुतनिमित्ता । विरत्यनुत्पत्तिनिमित्तस्य प्रतिबन्धस्यानुपात्तत्वात् । अत्रैवं 'रागान्धं चित्तमिदम्' इति निर्माणे उक्तनिमित्ता । केचिदचिन्त्यनिमित्तां तृतीयामामनन्ति । उदाहरन्ति च
'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न बलं हृतम् ॥'