________________
रसगङ्गाधरः।
१३५ त्रिविधा–प्रतिबन्धकातिरिक्तकारणव्यक्तिप्रतियोगिकाभावोक्तिपूर्विका, सत्यामपि कारणव्यक्तौ यदवच्छिन्नत्ववैकल्यप्रयुक्तः कार्याभावस्तद्वैकल्योक्तिपूर्विका, स च कारणतावच्छेदकधर्मः कचित्कारणतावच्छेदकसंबन्धश्च, प्रतिबन्धकोक्तिपूर्विका चेति । आर्थ्यपि त्रिविधा-प्रकृतकायसमानजातीयकार्यान्तरस्य कारणात् । प्रकृतकार्यविरुद्धकार्यस्य कारणात् । खकार्याद्वा प्रकृतकार्यस्योत्पत्तिरिति । एतदर्थकमेव ह्यकारणादित्यादि ।
इयं च विभावना द्विविधा-उक्तनिमित्तानुक्तनिमित्ता च । तत्रानुतनिमित्ता 'विनैव शस्त्रं' इत्यत्र दर्शिता । विलासानां मन्मथपीडाजनकानामनुपात्तत्वात् । उक्तनिमित्ता यथा
'यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः ।
दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते ॥' अत्र हि उपाचे यौवने दाहहेतुत्वं पर्यवस्यति । यत्तु
"असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमत्रं बाल्यात्परं साथ वयः प्रपेदे ॥' अत्र द्वितीयचरणे आसवाभावेऽपि मदस्य प्रतीपादनाद्यौवनस्य चौक्तत्वादुक्तनिमित्ता विभावना । न तु प्रथमतृतीयचरणयोः । संभरणपुष्पयोर्मण्डनमस्त्रं च प्रत्यहेतुत्वात् ।" इत्यलंकारसर्वखकारादिभिरुक्तं तत्र विचार्यते-विरोधमूला हि विभावनाद्यलंकाराः । विरोधस्यैव विद्युत्प्रभावादापाततः प्रतिभासमानस्य चमत्कारबीजत्वात् । अत्र ह्यासवभिन्न
द्वितीये कारणे कारणतावच्छेदकगुणादिवैकल्यदर्शनेन तदवच्छिन्नकारणाभावप्रतीतिरार्थी । अस्तु वा शाब्दी । तथापि खरूपतः कारणाभावकथनात्कारणगतधर्मवैकल्यद्वारेण तद्विशिष्टकारणाभावकथने विच्छित्तिविशेषात् । एतेन प्रथमप्रकाराद्वितीयप्रकारस्य वैलक्षण्यं नेत्यपास्तम् । तृतीये प्रतिबन्धकाभावस्य कारणलनये तदभावककथनं शाब्दम् । अभावाभावस्य प्रतियोगिखनये तस्याकारणवनये भावाभावस्यातिरिक्तखनये वा इत्यर्थः। आये भावोक्तेति पूर्वस्माद्विशेषः । चतुर्थ्या प्रकृतसजातीयकार्यान्तरस्य कारणभिन्नाकथनमिति कारणाभाव आर्थ एव । पञ्चम्यां च प्रकृतकार्यविरुद्धकार्यस्य कारणात्कथनमिति. स आर्थ एव । षष्ठ्यां तु कार्यात्कारणस्येति स एवेत्याहुः ॥ इति रसरङ्गाधरमर्मप्रकाशे विभावनाप्रकरणम् ॥