________________
रसगङ्गाधरः।
इत्यत्र विभावनायामतिशयोक्तेरध्यवसानमूलाया अननुप्राणकत्वादिति । ननु कारणाभावे कार्योत्पत्तिरसंभवन्ती कविना अभिप्रायविशेषेण निबध्यमाना हि विभावना । न चात्रोपादानान्तराभावे जगत उत्पत्तिः परमेश्वरादसंभवन्ती येन विभावना स्यात् । 'नासदासीत्', 'सदेव सौम्ये. दमग्र आसीत्', 'आत्मा वा इदमेक एवाग्र आसीत्', 'असद्वा इदमन आसीत्ततो वै सदजायत' इत्यादिश्रुतिभ्यः, 'अहमेवासमेवाग्रे नान्यद्यसदसत्परम्' इत्यादिस्मृतिभ्यश्च सृष्टिकाले भगवदतिरिक्तवस्तुजातप्रतिषेधावगमात् । तस्मादत्र विभावनाया एव संभावनाया नास्ति क पुनरतिशयोक्त्यनुप्राणितत्वव्यभिचार इति चेत्, न । अत्र हि भगवतः सकाशाकेवलस्य जगत उत्पत्तिर्न कवेरभिप्रेता । येन तस्या उपादानान्तरव्यति-. रेकेऽपि भगवतः सकाशात्संभवादसंभवमूला विभावना न स्यात् । किं तु जगद्रूपस्य चित्रस्य । चित्रस्य च केवलस्योपादानानां “मषीहरितालादीनामाधारस्य भित्त्यादेश्चाभावे केवलाकाशे जागर्येवोत्पत्तेरसंभवः । स च तस्य जगद्रूपतानुसंधानात्तत्कारणतदाश्रयव्यतिरेकमादाय निवर्तत इति 'निरुपादानसंभारम्' इत्यत्र निष्प्रत्यूहैव विभावनेति भवत्यतिशयोक्त्यनुप्राणितत्वव्यभिचारः । एतेन 'विभावनायां 'सर्वत्रातिशयोक्तिरनुप्राणिका' इति सर्वखकारोक्तिरपास्ता । तथा "निरुपदानसंभारम्' इत्यत्र विभावनाया एवाभावात्कुत्र व्यभिचारः” इति वदन् विमर्शिनीकारोऽपि प्रत्युक्त इति । उच्यते—मा म भूत्सर्वत्र विभावनायामतिशयोक्तिरनुप्राणिका । आहार्या भेदबुद्धिमात्रमेवानुप्राणकम् । तच्च क्वचिदतिशयोक्त्या क्वचिच्च रूपकेणेति न दोषः। .. ___ यत्तु—“कारणं विना कार्योत्पत्तिरेका विभावना । कारणानामसमग्रत्वे द्वितीया । सत्यपि प्रतिबन्धके कार्योत्पत्तिस्तृतीया । अकारणात्कार्योत्सनिश्चतुर्थी । विरुद्धात्कार्यजन्म पञ्चमी । कार्यात्कारणजन्म षष्ठी । क्रमे णोदाहरणानि
'अप्यलाक्षारसासिक्तं रक्तं तन्व्याः पदाम्बुजम् ।' 'अस्त्रैरतीक्ष्णकठिनैर्जगज्जयति मन्मथः ।' ३७ रस०