________________
४३१
त्वदुक्तविरोधाभासलक्षणातिप्रसङ्गस्यानिवारणात् । नहि लक्षणे विरोधोत्थापकनिवर्तकयोरेकवृत्तिवेद्यत्वमेकजातीयवृत्तिवेद्यत्वं वा विवक्षितम् । तथा सति 'कुसुमानि शराः' इत्यादौ प्राचीनरीत्याऽव्याप्तिप्रसङ्गादिति चेत् विरोधस्यात्र प्रतिभानेऽपि कविसंरम्भागोचरत्वेनाचमत्कारित्वात् । अयं च विरोधालंकारः कुवलयानन्दकृता उत्प्रेक्षाशिरस्कोऽप्युदाहृतः ।
यथा
रसगङ्गाधरः ।
'प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि भेत्तृतोज्झिता । अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक्चारदृगप्यवर्तत ॥' इति । विरोधप्रतीत्यनन्तरं यत्रार्थान्तरप्रतिपत्त्या विरोधस्य समाधानं तत्र विरोधाभास इष्यते । यथा – 'रिपुरा जिरसभावभञ्जनोऽप्यरिपुरा जिरसभावभञ्जनः' इत्यादौ । इह तूत्प्रेक्षया विरोधसमाधानात्मिकया मुखस्थितया विरोधस्योत्थानमेव भग्नमिति कथमनुतिष्ठन्नेव विरोधश्चमत्कारमूलमलंकारभावं वहेत् ।
इति रसगङ्गाधरे विरोधप्रकरणम् ।
अथ विभावना—
कारणव्यतिरेकसामानाधिकरण्येन प्रतिपाद्यमाना कार्योत्पत्तिविभावना ॥
तदुक्तम् — 'क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना' इति । क्रियाशब्देनात्र कारणं विवक्षितम् । अत्र कारणव्यतिरेकसामानाधिकरण्येन कार्योत्पत्तौ निबध्यमानायामापाततो विरोधः प्रतिभासमानोऽपि तदितरकारणकल्पनया निवर्तते । यथा
इति जयदेवोक्तो विरोधो विरोधाभास एवेति बोध्यम् । अलंकारभावं वहेदिति । अत्रेदं चिन्त्यम् – प्रतीपभूपैरित्यत्र हि विरुद्धधर्मगततया स्वाश्रयभेदकत्वत्यागोत्प्रेक्षायां विरुद्धतयावभासमानपदार्थानां श्लेषभित्तिकाभेदाध्यवसायेनाविरुद्धतादात्म्यापन्नानां सहचासो निमित्तम् । निमित्तप्रतिपादकं चोत्तरार्धम् । विरोधभानमन्तरेण विरुद्धधर्मैरपीत्याद्युत्प्रेक्षाया अनुत्थानाच्च । एवं च निमित्तांशे विरोधालंकारमुपजीव्यैव विरोधत्यागो - स्प्रेक्षा अर्थान्तरानुगृहीता । पश्वात्तत्साधनत्वेन स्थितेत्युत्प्रेक्षाङ्गमत्र विरोध इति ॥ इति रसगङ्गाधर मर्मप्रकाशे विरोधप्रकरणम् ॥