________________
काव्यमाला ।
' विचारिते महिमनि त्वदीये नित्यनिर्मले । परमात्मन्गगनमप्याधत्ते परमाणुताम् ॥' 'हर्षयन्ति क्षणादेव क्षणादेव दहन्ति च । यूनः स्मरपराधीनान्निर्दया हन्त योषितः ॥ ' 'कान्तारे विलपन्तीनां त्वदरातिमृगीदृशाम् । देवनानि समाकर्ण्य हरिद्भिरपि चुक्षुभे ॥' इत्यादि खयमूह्यम् ।
अत्र जात्यादिरिति धर्ममात्रं विवक्षितम् । उपलक्षणपरत्वात् । तेन 'यः किल बालकोऽपि पुराणपुरुषः', 'विशुद्धमूर्तिरपि नीलाम्बुदनिभः', 'जगद्धितकृदपि जगदहितकृत्', 'अगोद्धारकोऽपि नागोद्धारकः', इत्यादौ सखण्डोपाधेर भावस्य च परिग्रहः । वस्तुतो जात्यादिभेदानामहृद्यत्वाच्छुद्धत्वश्लेषमूलत्वाभ्यां द्विविधो ज्ञेयः । ननु 'हितकृदप्यहितकृत्', 'अगोद्धारकोsपि नागोद्धारकः' इत्यादौ विरोधस्य प्रतिभामात्रम्, श्लेष एव त्वलंकारः । तस्य खविषये प्रायशः सर्वालंकारापवादकत्वादिति चेत्, कविः शृणोति । इदं तु बोध्यम् - यत्रापि शब्दादिर्विरोधस्य द्योतकस्तत्र 'विरोधः शब्दः, अन्यत्र त्वार्थ इति तावत्प्राचां सिद्धान्तः । तत्र शाब्दत्वं शब्दकरणकप्रतीतिगोचरत्वं विरोधस्य न घटते । ' त्रयोऽप्यत्रयः ' इत्यादौ नियतेषु विशेषणविशेष्यसंसर्गेषु विरोधस्य कुत्राप्यसमावेशात् । न च तदधिकरणावृत्तित्वमिव तत्प्रतियोंगिकत्वमपि विरोधः । तथा च प्रकृते नञर्थोत्तरपदार्थयोः प्रतियोगित्वस्य संसर्गत्वात्संसर्ग एव विरोधस्य समावेश इति वाच्यम् । 'सुप्तोऽपि प्रबुद्धः' इत्यादौ तथाप्यसमावेशात् । नहि सुप्तः सुप्तत्वविरुद्ध प्रबुद्धत्ववदभिन्न इति शाब्द धीरनुभवसिद्धा । येन लक्षणादि कुसृष्टौ यतेमहि । अत्राहुः - 'सुप्तोऽपि प्रबुद्धः ', ' त्रयोऽप्यत्रयः' इत्यादिषु विरोघोदाहरणेषु शब्दद्वयेन शयितत्वजागरितत्वादिधर्मद्वयस्यादावुपस्थितौ संबन्धिज्ञानादपि शब्दसाचिव्यात्तद्गतो विरोधोऽपि स्मर्यते । अनन्तरं च प्रतिबन्धकज्ञानसामग्र्या बलवत्त्वाद्विरुद्धाविमौ धर्माविति मानसे वैयञ्जनके वा विरोधबोधे जाते तेन प्रतिरोधाच्छयितजाग
.४२८