________________
४२६
काव्यमाला।
भावेन संरक्षणीया इति विशेषोऽवगम्यते । अवगम्यते च जगत्कुटुम्बिन इत्याद्युत्तरार्धे प्रयुक्ते । यो हि निषेधमात्रसामर्थ्याक्षिप्तो विशेषस्तं निषेध आक्षिपतीति युक्तं वक्तुम् , न तु परकीयं विशेषम् । तथा हि राजसंदेशहारिणा प्रयुक्ते न वयं राजसंदेशहारिण इति वाक्ये खस्मिन्खनिषेधस्य बाधाद्राजसंदेशहारिपदेन लक्षणया राजसंदेशहारिनिष्ठकैतववचनप्रयोक्तृत्वादिधर्मवन्त उपस्थाप्यन्ते । प्रयोजनं च तन्निषेधे सति खगतस्य सत्यवक्तृत्वादेः ववचनगतस्य सत्यत्वादेर्वा प्रत्ययः । अयमेव च विशेषस्याक्षेपः । एवं स्थिते किमुच्यते तव न कश्चिदपि शत्रुभावनेत्यादि । यदि तु पूर्वोक्तादेव बाधाद्राजपदस्य शत्रुलक्षणया न वयं शत्रुसंदेशहारिण इति प्राप्तेनार्थेनासत्खामिनः शत्रव एव न भवन्ति किं तु भृत्यमावेन पालनीया इति विशेषोऽवगम्यत इत्युच्यते तदा तृतीयकक्ष्यारूढो नास्मत्खामिन इति निषेध आक्षेपः स्यात् , न तदुत्थापकस्त्वदुक्तो यथाश्रुतनिषेधः । यदि तु परम्परया यथाकथंचिद्विशेषोत्थापकोऽप्याक्षेप इत्युच्यते, तथापि 'संधिकालोचितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्' इत्यादेस्त्वद्वचनस्यासंगतिरेव । नहि यथार्थवादित्वेन केवलेन त्वदुक्तो विशेष आक्षेप्तुं शक्यते, किं तूत्तरार्धेनाक्षितः परिपोष्टुम् । तस्माद्यत्र त्वया निषेधस्य पर्यवसानमुक्तं स एव विशेषस्तस्याक्षेप्यः, न तु विशेषान्तरम् । अत एव "बालक नाहं दूती-' इत्यत्र दूतीत्वस्य वस्तुनो निषेधेन वस्तुवादित्वादिविशेषो व्यज्यते" इत्यलंकारसर्वखकृतोक्तं संगच्छते ।
__इति रसगङ्गाधरे आक्षेपप्रकरणम् ।
विशेषाक्षेपके कस्मिंश्चिद्विशेषे आक्षेप्तव्ये साहाय्यकं करोति स आक्षेप इति तदर्थः । नाहं दूतीत्यस्य दूत्या उक्तौ बाधितवातीपदेन मिथ्यावादित्वविशिष्टा लक्ष्यते । तग्निषेधश्च सत्यवादिले पर्यवस्यति । एवं च तद्बोध्यसत्यवादिसहकृतं तनोस्ताप इति वाक्य. मिदानीमेवागत्योज्जीवयेति विशेषमाक्षिपति । अन्यथा संघटनमात्रप्रयोजनकलाव. गम एव तस्य स्यादिति तत्कालोचितकैतववचनले वाक्यसंभावना स्यादिति । यत्तु सत्यवादिवरूपविशेषमादायैवाक्षेपत्वमिति, तन्न । तस्याचमत्कारिखात् । तनोस्ताप इत्यादिनोक्तविशेषे व्यञ्जनीये सहकारित्वं तु तस्यास्तीत्यनुभवसिद्धम् । तं विना तेनापि तस्यानाक्षेपात् । एतेन 'नरेन्द्रमौले' इति कुलवयानन्दोक्तमपि व्याख्यातम् । एवं 'यत्तु नरेन्द्रमौले' इत्यादि, 'नतु विशेषान्तरम्' इत्यन्तग्रन्थोऽपि चिन्त्य एवेत्याहुः । तवेत्यादि षष्टी कर्तुः शेषले ॥ इति रसगङ्गाधरमर्मप्रकाशे आक्षेपप्रकरणम् ॥