________________
३९०
काव्यमाला।
तथेहापीति न कश्चिद्दोषः । अन्यथा प्राचां काव्यलिङ्गमप्यलंकारो न स्यात् । तस्यापि निर्हेतुरूपदोषाभावात्मकत्वात् ।
'द्विजराज कलाधार विश्वतापनिवारण ।
कथं मामबलां क्रूरैः करैर्दहसि निर्दय ॥' इत्यादौ विशेषणाधिक्याव्यङ्ग्याधिक्ये चमत्काराधिक्यम् । - अयं च वाच्यसिद्ध्यङ्गव्यङ्ग्यगर्भत्वेनोपस्कारकव्यङ्ग्यगर्भत्वेन द्विधाभवन् व्यङ्ग्यस्य वाच्यायमानत्वतद्विपर्ययाभ्यां चतुर्धा ।
आद्यो यथा'विहाय संसारमहामरुस्थलीमलीकदेहादिमिलन्मरीचिकाम् । कृपातरङ्गाकुल मन्मनोमृगो विगाढुमीश त्वयि गाढमीहते ॥ अत्र गाहनसिध्यङ्गं कृपेत्यादेः समुद्ररूपं व्यङ्ग्यं वाच्यायमानम् । द्वितीयो यथा'खर्वीकृतेन्द्रगर्व त्वरया चक्रेण भिन्ननक्रमुख ।
लीलात्तकोलमूर्ते मामुद्धर्तुं कथं न शक्तोऽसि ॥' अत्र गोवर्धनगजेन्द्रवसुंधराणामुद्धारो वाच्यतास्पर्शशून्य एवोपालम्भ-/ सिद्ध्यङ्गम् । तृतीयस्तु 'धृतशाङ्गदारिनन्दक' इत्यत्र, चतुर्थः 'वीचिक्षालितकालियाहितपदे' इत्यत्र च बोध्यः ।
इति रसगङ्गाधरे परिकरालंकारप्रकरणम् ।
अथ श्लेषःश्रुत्यैकयानेकार्थप्रतिपादनं श्लेषः ॥ तच्च द्वेधा । अनेकधर्मपुरस्कारेणैकधर्मपुरस्कारेण च । आद्यं द्वेधा ।
विपक्षे बाधकमप्याह-अन्यथेति । एवं सत्यपि तस्य तत्त्वानङ्गीकार इत्यर्थः । अत एवापिः प्रयुक्तः । अनेकविशेषणानां साभिप्रायत्वे उदाहरति-द्विजेति । चन्द्रं प्रत्युकिरियम् । परिकरस्य भेदमाह-अयं चेति । कोलेति । वराहेत्यर्थः । वाच्यतास्पर्शेति । वाच्यायमानतेत्यर्थः । अत एव स्पर्शपदसार्थक्यम् । तद्गमकाभावात्तस्य गूढत्वमिति भावः ॥ इति रसगङ्गाधरमर्मप्रकाशे परिकरप्रकरणम् ॥ श्लेषं लक्षयति-अथेति । तत्र आद्यमेदयोर्मध्ये। अत्र एषां भेदानां मध्ये ।