________________
काव्यमाला।
णाभिव्यक्तस्य नायकस्य व्यवहारविशेषणत्वमेव, न त्वभेदेन चन्द्रादिविशेषणत्वम् । चन्द्रादिपदसमानाधिकरणपदानुपस्थापितत्वादित्युक्तं तत्र तुल्यन्यायत्वान्निशायामपि न नायिकात्वारोपः, अपि तु नायकवदभिव्यक्ताया नायिकाया अपि व्यवहारसंबन्धित्वेनैवावस्थानमिति वक्तव्यम् । तच्च बाधितम् । नायिकात्वानालीढकेवलरात्रिमुखचुम्बनरूपस्य व्यवहारस्य नायकासंबन्धित्वात् । नहि रात्रितादात्म्यं विना नायिकायाः पृथङ्मुखं विशेषयितुमस्ति सामर्थ्यम् । अपि च । .. निर्लक्ष्मीकाभवत्प्राची प्रतीची याति भास्करे ।
प्रिये विपक्षरमणीरक्ते का मुदमश्चति ॥' इत्यत्र पूर्वार्धगतायां समासोक्तौ भास्करादीनां नायकत्वाप्रतीतावुत्तरार्धे प्रियवादिना समर्थनायाः सर्वथैवानुपपत्तेः । अन्यच्च अप्रकृतव्यवहारः प्रकृतविशेष्ये प्रकृतव्यवहारताटस्थ्येनारोप्यते तदभिन्नतया वा । नाद्यः । एवं च प्रकृतविशेष्ये प्रकृताप्रकृतव्यवहारयोरेकत्र द्वयमिति विषयताशाली बोधः स्यात् । स चासिद्ध इत्युक्तमेव । न द्वितीयः । इतोऽपि प्रकृतव्यवहार एवाप्रकृतव्यवहारस्याभेदेनारोपो वरीयान् , न तु भेदसंसर्गेण प्रकृतविशेष्ये अभेदांशे व्यवहारांशे चारोपखीकारप्रसङ्गात् । मम त्वभेदांशमात्र इति स्फुट एव विशेषः । तस्मादप्रकृताभिन्नतया व्यवसितः प्रकृतव्यवहारः खविशेष्ये तद्विशेष्याभिन्नतयावस्थिते भासते तत्राप्रकृतार्थ उपस्कारकतया गुण इति प्रकार एव रमणीयः । स च न वाक्यार्थरूपके 'त्वत्पादनखरत्नानां' इत्यत्रेव विशिष्टस्य विशिष्टे । समा
चेति । यदपीत्यर्थः । तदनलीढलादेव केवलवम् । दोषान्तरमाह-अपि चेति । यातीति सप्तम्यन्तम् । अञ्चति प्राप्नोति । आदिनाप्राच्यादिपरिग्रहः । नायकत्वेति । एकशेषात्त्वः । दोषान्तरमाह-अन्यञ्चेति । एवं चेति । यत एवं सतीत्यर्थः । स चासिद्ध इति । अप्रकृतव्यवहारस्य प्रकृतासंबन्धिलादिति भावः । प्रकृतव्यवहारा. पन्नाप्रकृतव्यवहारस्य मेदसंसर्गेण प्रकृतविशेष्ये सामारोपे प्रकारतया अभेदांशे विशेष्यतया, व्यवहारांशे आरोप इति गौरवादाह-वरीयानिति । प्रसङ्गादिति । तस्मादिति । रमणीय इत्यस्यान्वयः । स्वेति । अप्रकृतव्यवहारविशेष्ये प्रकृत इत्यर्थः । तदिति । प्रकृतव्यवहारविशेष्यप्रकृतेत्यर्थः । तत्र प्रकृते । स च आरोपश्च । वाक्यार्थरूपकमेवाह-त्वत्पादेति । तयोः प्रकृताप्रकृतवाक्यार्थयोः । वैशिष्ट्यस्यैव