________________
काव्यमाला।
यथा वा
'उन्मीलितः सह मदेन बलाबलारे___ रुत्थापितो बलभृतां सह विस्मयेन । नीलातपत्रमणिदण्डरुचा सहैव । __पाणौ धृतो गिरिधरेण गिरिः पुनातु ।' अत्र नीलातपत्रमणिदण्डरुचो गिरिधारणोत्तरकालिकत्वादुत्तरार्धगता पौर्वापर्यविपर्ययानुप्राणितैव सहोक्तिर्निदर्शनानुप्राणिता च पूर्वार्धगते तु प्रकारद्वयेनापि संभवतः ।
इति रसगङ्गाधरे सहोक्तिप्रकरणम् । अथ विनोक्तिःविनार्थसंबन्ध्येव विनोक्तिः॥
हृद्यत्वं चानुवर्तते । तच्च विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वाभ्यां भवति । यथा
'संपदा संपरिष्वक्तो विद्यया चानवद्यया ।
नरो न शोभते लोके हरिभक्तिरसं विना ॥' यथा वा-- 'वदनं विना सुकवितां सदनं साध्वीं विना वनिताम् ।
राज्यं च विना धनितां न नितान्तं भवति कमनीयम् ।।' रमणीयत्वे यथापकैविना सरो भाति सदः खलजनैर्विना । कटुवर्णैर्विना काव्यं मानसं विषयैर्विना ।'
उन्मूलितः समूलं खण्डितः । बलारेरिन्द्रस्य । एवेन श्लेषादिप्रकारद्वयव्यावृत्तिः । निद. र्शनेति । सदृशवाक्यार्थयोरक्यारोपादिति भावः । गते तु सहोक्ती इति शेषः । प्रकारद्वयेनेति । श्लेषभिन्न प्रकारद्वयेनेत्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाशे सहोक्तिप्रकरणम् ॥
विनोक्तिं लक्षयति-अथेति । 'विनार्थसंबन्ध एव' इति पाठः । तच्च हृद्यत्वं च । उद्देशक्रमवैपरीत्येनारमणीयत्वे तावदुदाहरति-यथेति । सदः सभा । मानसमन्तःकर.