________________
३५३
रसगङ्गाधरः। णत्वेन विवक्षितमिति न्यूनत्वमपि व्यतिरेकः । रसपोषकतया चास्यापि हृद्यत्वम्' इति तदुभयमप्यसत् । अस्मिन्हि प्रियहितकारिण्या वचने चन्द्रादप्यधिकगुणत्वमेव विवक्षितम् , न न्यूनगुणत्वम् । चन्द्रो हि पुनःपुनरागमनेन लोके सुलभः । अत एव न तादृशमाहात्म्यशाली । इदं च पुनयौवनमपुनरागमनेनातिदुर्लभतरत्वादत्युत्कृष्टमिति मानादिभिरन्तरायैः शठजनश्लाघनीयैर्विदग्धया भवत्या मुधा गमयितुमसांप्रतमिति तावदुपात्तगुणकृतमुत्कृष्टत्वं स्फुटमेव । सकलसुखनिदानत्वाद्यनुपात्तगुणकृ. तोऽप्युत्कर्षोऽत्र वाक्यार्थपरिपोषाय सहृदयहृदयसरणिमवतरति । अन्यथा किमित्यस्य कदर्ययौवनस्य कृते मया मानाद्विरस्यते यातु नाम यौवनमिति प्रतिकूलेनार्थेन प्रकृतार्थस्यापुष्टतापत्तेः । किं च यत्र कापि शाब्द उपमेयस्यापकर्षस्तत्रापि स तस्य वाक्यार्थपर्यवसायितयोत्कर्षात्मना परिणमति । यथा
'द्रोहो निरागसां लोके हीनो हालाहलादपि ।
अयं हन्ति कुलं सायं भोक्तारं केवलं तु सः ॥' - अत्र हीन इत्यपकर्षों दारुणताधिक्यरूपोत्कर्षात्मना परिणमति एवम्
'इन्दुस्तु परमोत्कृष्टो यः क्षीणो वर्धते मुहुः ।
'धिगिदं यौवनं तन्वि क्षीणं न पुनरेति यत् ॥' इत्यादावुपात्तस्यापुनरावर्तित्वस्य तद्धर्मस्य मानप्रतिकूलतया द्वेषेणैव धिक्कारादिकथनम् , न तु वास्तवापकर्षेण । दुर्लभत्वस्य प्रियसमागमोल्लासकत्वस्य चोत्कर्षकस्य स्फुटत्वात् ।
यदपि कुवलयानन्दकृतालंकारसर्वखोक्तार्थानुवादकेन न्यूनतायामुदाहृतम्
युक्तम् । निदानत्वाद्यनुपात्तेति । निदानवादिरूपो योऽनुपात्तो गुणस्तत्कृत इत्यर्थः । अन्यथेति । उपात्तानुपात्तगुणकृतोत्कर्षानङ्गीकार इत्यर्थः । अस्या अपुष्टतापत्तेरित्यत्रान्वयः । स तस्येति । उपमेयस्योत्कर्ष इत्यर्थः । 'वाक्यार्थपरिपोषकतयोत्कर्षात्मना' इति पाठः । अयं द्रोहः । स हालाहलः । 'हालाहलोऽस्त्री' इति कोषा