________________
३१२
काव्यमाला ।
यथा वा
'गिरं समाकर्णयितुं यदीयां सदा रसज्ञैरनुभावनीयाम् । समीहते नित्यमनन्यचेता नभखदात्मंभरिवंशनेता ॥'
यथा वा
'तिमिरशारदचन्दिरतारकाः कमलविद्रुमचम्पककोरकाः । यदि मिलन्ति कदापि तदाननं खलु तदा कलया तुलयामहे ॥' पूर्वत्र निर्णीयमानः, इह तु संभाव्यमान इति विशेषः । तथान्यः प्रकारः — यत्र संबन्धेऽप्यसंबन्धः ।
यथा
'पीयूषयूषकल्पामल्पामपि ते गिरं निपीतवताम् । तोषाय कल्पते नो योषाधरबिम्बमधुरिमोद्रेकः ॥' अत्र तोषसंबन्धेऽप्यसंबन्धः ।
-
एवमेवान्योऽपि प्रकारः — यत्र प्रयोजकस्य प्रयोज्यस्य च पौर्वापर्यविपर्ययः । स च द्वयोः सहभावासहभावात् प्रयोजकस्य प्रयोज्यान
न्तरभावाद्वेति द्वेषा ।
आद्यो
"
यथा— 'प्रतिखुरनिकरशिलातल संघट्टसमुच्छल द्विद्युद्वल्लीकृतविस्फुलिङ्गच्छटापटलानां वाजिनाम्' इति हयवर्णने समुच्छलन विद्युद्वल्लीकरणयोः सहोत्पत्तिर्गम्यते ।
1
षष्ठ्या वा' इति समासः । यदीयामिति । प्रकृतवर्णनीयराजकीयामित्यर्थः । नभस्वदिति । नभखता वायुना आत्मानं बिभ्रति ये सर्पास्तेषां वंशस्य कुलस्य नेता नायकः ! शेष इत्यर्थः । अत्र तदाकर्णनसमीहासंबन्धेऽपि तदुक्तिस्तद्वैदुष्यातिशायिका । चन्दिरेति । चन्द्रेत्यर्थः । मिलन्ति एकत्र तिष्ठन्ति । तदाननं तस्या वर्ष्याया नायिकाया मुखम् । कलया न तु सर्वांशेन । पूर्वत्र पूर्वयोः । इहत्विति । यदीत्यस्य संभावना - बोधकत्वादिति भावः । यथेति । पीयूषममृतमेव यूषो मण्डविशेषस्तेन ईषन्यूनाम् । ते वर्णनीयस्य राज्ञः । समुच्छलनेति । विस्फुलिङ्गानामित्यादिः । सहोत्पत्तिरिति । शतृप्रत्ययेनेति भावः । ‘शत्रा समुच्छलन' इति पाठे तु ततः प्रागत्रेति शेषः । वस्तुतः