________________
३०८
काव्यमाला।
लक्ष्यविशेष्यकबोधत्वं कार्यतावच्छेदकम् । अतः शक्यासाधारणधर्मस्य लक्ष्यासाधारणधर्मस्य च भानाभानयोर्न विरोधः । परे तु 'मात्रविशेषणं न देयम् । तेन लक्ष्यासाधारणोऽपि धर्मो भासते' इत्याहुः । केचित्तु 'लक्षणया लक्ष्यासाधारणधर्मप्रकारेणैवं बोधः । अनन्तरं च व्यापारान्तरेण शक्यतावच्छेदकप्रकारेण लक्ष्यबोधः ।' इत्याहुः । बाधज्ञानस्य च यथा न प्रतिबन्धकत्वं तथोक्तं प्राक् । अत्र चैकपदोपात्तत्वान्नोद्देश्यविधेयभावः । उदाहरणम्'कलिन्दगिरिनन्दिनीतटवनान्तरं भासय
न्सदा पथि गतागतक्लमभरं हरन्प्राणिनाम् । स्फुरत्कनककान्तिभिर्नवलताभिरावेल्लितो
ममाशु हरतु श्रमानतितमां तमालद्रुमः ॥' अत्र तमालेन भगवतो निगरणे कलिन्दनन्दिनीत्यादीनि त्रीणि चरणत्रयगतानि विशेषणानि तदनुग्रहार्थ विषयविषयिणोः साधारणधर्मतया साक्षादुपात्तानि । चतुर्थमपि चतुर्थचरणगतमवैयाकरणानां दर्शने । वैयाक• रणानां तूपात्तया तमालाभिन्नकर्तृकया श्रमहरणक्रिययोन्नीतं तादृशकर्तृत्वं तथा तयोः स्थितम् । द्वितीये चरणे चोच्चावचयोनिसंचरणस्य प.
वित्यर्थः । एतावानेव विशेष इति भावः । अनन्तरं च लक्ष्यार्थबोधोत्तरं च । व्यापारेति । व्यञ्जनयेत्यर्थः । एतानि मतानि पूर्व निरूपितानि । ननु बाधज्ञानसत्त्वात्कथं व्यञ्जनया तथा बोधोऽत आह-बाधज्ञानेति । एवं चाहार्यभेदबुद्धिः । बाधकबुद्धिकालिकस्यैवाहार्यवादिति भावः । प्राञ्चस्तु 'कमलमनम्भसि-' इत्यादावाह्लादकलादिकं लक्ष्यतावच्छेदकम् । तेन रूपेण प्रथमतो बोधे तद्धर्मावच्छिन्ने कमलाभेदप्रत्ययो व्यञ्जनयानाहार्यः । तद्धर्मावच्छिन्ने कमलामेदबाधबुद्धेरभावात् । अत एव 'गौणसाध्यवसानायां सर्वथैवामेदावगमः' इति प्रकाशकृतः । रूपके लाहार्य एव । अयमेव रूपकादस्या विशेषः" इत्याहुः । वनान्तरं वनमध्यम् । गतागतेति । गमनागमनक्लेशेत्यर्थः । तदनुग्रहार्थ तेन तन्निगरणानुग्रहार्थम् । दर्शन इति।तदर्थ तयोस्तत्त्वेन साक्षादुपात्तमिति शेषः । तैः प्रथमान्तार्थविशेष्यकबोधाङ्गीकारादिति भावः । वैयाकरणानां त्विति । दर्शन इत्यनुषज्यते । तथा तदर्थं तयोस्तत्त्वेन साक्षात्तथा अनुपात्तम् । उच्चेति ।