________________
२८८
काव्यमाला ।
यगतयोः साहजिकळम्बत्वजल घिजठरप्रविष्टत्वयोर मेदाध्यवसानातिशयोक्त्या साधारण्यसंपत्तौ निमित्तता । न चात्र फलस्याप्युत्प्रेक्षणात्फलोत्प्रेक्षेति वक्तुं शक्यम् । उत्प्रेक्ष्यमाणफल निष्पादित निमित्तोत्थापितायां स्वरूपोत्प्रेक्षायामेवंविधेयत्वाच्चमत्कृतेर्विश्रामादुत्प्रेक्षाप्रतिपादकस्य प्रत्ययस्य फलेनान्वयाच्च तयैवात्र व्यपदेशो युक्तः । अनिगीर्णविषया चेयमुपात्तानुपात्तगुणक्रियात्मकनिमित्ता निष्पाद्यविशिष्टशरीरा जात्युत्प्रेक्षा । हिमगिरिभुजस्य कविनैव निष्पादितत्वात् ।
तादात्म्येन गुणस्वरूपोत्प्रेक्षा यथा
'अम्भोजिनीबान्धवनन्दनायां कूजन्बकानां समजो विरेजे । रूपान्तराक्रान्तगृहः समन्तात्पुञ्जीभवशुक्ल इवाश्रयार्थी ॥'
अत्रैकाधिकरण्यापन्ने कूजनविशिष्टे बकत्वजात्यवच्छिन्ने विषये पुञ्जी - भवनविशिष्टः शुक्लगुणस्तादात्म्येनोत्प्रेक्ष्यते । तत्र बकगतानां कूजननैर्मल्यपुञ्जीभवनानां शुक्लगुणगतत्वमन्तरेण बकशुक्लयोरभेदस्य दुरुपपादत्वातत्सिद्धये तेषां विषयिगतत्वं साध्यम् । तत्र नैर्मल्यस्यानुपात्तस्य यथाकथंचिदुत्प्रेक्ष्यमाणे विषयिणि सिद्धत्वात्कूजनपुञ्जीभवनयोर्निष्पादनाय रूपान्तराक्रान्तगृहत्वमाश्रयार्थित्वं च हेतुत्वेनोत्प्रेक्षितम् । इहापि प्राम्बत्साहजिकयोः कल्पिताभ्यामभेदाध्यवसानात्साधारण्यम् । एवमन्यत्राप्यूह्यम् । पूर्वं हि यथा फलस्योत्प्रेक्षणेऽपि न फलोत्प्रेक्षा तथेहापि हेतोरिति ।
तनयमैनाकेत्यर्थः । विषयेति । भागीरथीत्यर्थः । विनिगमनाविरहादाह - उत्प्रेक्षेति । प्रत्ययस्य क्यङः । उपसंहरति — तयैवेति । एवं चेत्यादि । स्वरूपोत्प्रेक्षयैवेत्यर्थः । क्वचित् ‘तथैव' इति पाठः सोऽप्युक्तार्थंक एव । अत्र भेदानुपपादयति — अनिगीर्णेति । भागीरथ्या उपादानात् । उपात्तेति । इदं च यथासंभवं बोध्यम् । न तु यथासंख्यम् । निष्पाद्यत्वे हेतुमाह — हिमेति । एवं चैकदेशस्य सिद्धत्वेऽपि विशिष्टस्य निष्पाद्यत्वं स्पष्टमेवेति भावः । अम्भोजिनीति | सूर्यकन्यायां यमुनायामित्यर्थः । समजः संघः । रूपान्तरेति । नीलादीत्यर्थः । ऐकाधिकरण्यापन्न इति । समुदायापन्न इत्यर्थः । तत्र तयोर्मध्ये । तत्सिद्धये शुक्लगुणगतत्वसिद्धये । तेषामुक्तधर्माणाम् । विषयीति । शुक्रगुणेत्यर्थः । यथाकथंचिदिति । नन्वेवं हेतुत्प्रेक्षैवेयं कुतो नात