________________
२८६
काव्यमाला ।
' वदनकमलेन बाले स्मितसुषमालेश मावहसि यदा । जगदिह तदैव जाने दशार्थबाणेन विजितमिति ॥'
अत्र जगज्जयसंभावनायामतिप्रसङ्गवारणाय रमणीयतद्धर्मनिमित्तकमिति । स्मितस्य संभावनोत्थापकत्वेऽपि जगद्विजितरूपविषयविषयिसाधारणत्वाभावान्न दोषः । एतेन
'प्रायः पतेद्दयौः शकलीभवेद् ग्लौः सहाचलैरम्बुधिभिः स्खलेद्गौः । नूनं ज्वलिप्यन्ति दिशः समस्ता यद्रौपदी रोदिति हा हतेति ॥ अत्रापि रोदनकारणीभूत केशग्रहणादिजन्यपापनिमित्तोत्थापितायां स्वर्गपंतनसंभावनायां नातिप्रसङ्गः । प्रायः स्थाणुनानेन भवितव्यम्, नूनं पुरुषेणानेन भाव्यम्, दूरस्थोऽयं देवदत्त इवाभाति, इत्यादौ निश्चलत्वचञ्चलत्वादिसाधारणधर्मनिमित्तायां संभावनायामतिप्रसङ्गः स्यात्, अतो रमणीयत्वं धर्मगतमुपात्तम् । रूपकवित्तावतिप्रसङ्गवारणाय संभावनमिति । अत्र च तादात्म्येन संसर्गेण धर्म्युत्प्रेक्षायाः, संसर्गान्तरेण धर्मोत्प्रेक्षायाश्च संग्रहायैकोक्त्या लक्षणद्वयं विवक्षितम् ।
सा चोत्प्रेक्षा द्विविधा - वाच्या, प्रतीयमाना च । इव, नूनम्, मन्ये, जाने, अमि, ऊहे, तर्कयामि, शक्के, उत्प्रेक्षे, इत्यादिभिः क्यङाचारकि - बादिभिः प्रतिपादकैः सहिता यत्रोत्प्रेक्षासामग्री, तत्र वाच्योत्प्रेक्षा । यत्र च प्रतिपादकशब्दरहितं तत्सामग्रीमात्रम्, तत्र प्रतीयमाना । यत्र तत्सामग्रीरहितं प्रतिपादकमात्रम्, तत्र संभावनामात्रमेव नोत्प्रेक्षा ।
कार्याभावापत्तेः स्मितेति । हास्यशोभालेशमित्यर्थः । तदेति पूर्वान्वयि । दशेति । पञ्चबाणेन मदनेनेत्यर्थः । जगज्जयेति । जगति जय संभावनायामित्यर्थः । तद्धर्मेति । तद्धर्मसंबन्धीत्यर्थः । ननु स्मितरूपधर्मनिमित्तकत्वमस्त्येवात आह- - स्मितेति । हास्यस्य तत्सहकारित्वादिति भावः । जगदिति । जगद्विजितरूपौ यो विषयविषयिणौ तन्निष्ठत्वाभावादित्यर्थः । अस्य प्रत्युदाहरणान्तरमाह - एतेनेति । ग्लौश्चन्द्रः । गौः पृथ्वी । भूतलं केशग्रहणादिविशेषणम् । पापस्य द्यौः पतेदित्यादि विषयविषयिसाधारणत्वाभावादिति भावः । स्थाणुना वृक्षेण । यथाक्रमेण धर्मानाह - निश्चलेति । आदिना विलक्षणाकारत्वपरिग्रहः । रमणीयत्वमिति । तत्त्वं च कविप्रतिभानिर्वर्तितत्वमिति भावः । ननु ज्ञानमित्येवास्तु अत आह— रूपकेति । नन्वेवमपि तदभाववत्वेनेत्याद्यधिकमत आह--अत्रचेति । उक्तलक्षणवाक्य इत्यर्थः । अलंकार सर्व खरीत्या इमा विभजते-सा चोत्प्रेक्षेति । यत्रोत्प्रेक्षा सामग्रीति । सा च रमणीयतद्धर्म