________________
१४
काव्यमाला ।
तत्किमर्थमिति पृच्छामः । व्यङ्ग्यस्य व्यञ्जनार्थमिति चेन्न । व्यञ्जकग
तासाधारण्यस्य व्यञ्जनानुपायत्वात् ।
'औणि दोब्बलं चिन्ता अलसन्तणं सणीससिअम् ।
मह मन्दभाइणीए केरं सहि तुह वि परिभवइ ||' इत्यादौ साधारणानामेवौन्निद्यादीनां वक्रादिवैशिष्ट्यवशादर्थविशेषव्यञ्जकताया अभ्युपगतेः । प्रत्युतासाधारण्यस्य व्याप्त्यपरपर्यायस्यानुमानानुकूलतया व्यक्तिप्रतिकूलत्वाच्च । अथ तटादिघटितत्वेऽपि न निःशेषेत्यादिवाक्यार्थानामसाधारण्यम् । सलिलार्द्रवसनकरणकप्रोञ्छनादिनापि तत्संभवादिति चेतर्हि वापीस्नानव्यावर्तनेन कः पुरुषार्थः । एकत्रानैकान्तिकत्वस्येव बहुष्वनैकान्तिकताया अपि ज्ञाताया अनुमितिप्रतिकूलत्वाद्यक्तिप्रतिकूलत्वाच्च । अपि चात्र हि तदन्तिकमेव रन्तुं गतासीति व्यङ्ग्यशरीरे तदन्तिकगमनं मरणरूपफलांशश्चेति द्वयं घटकम् । तत्र तावत्तद्न्तिकं गतासीत्यंशस्य त्वन्मते व्यङ्ग्यत्वं दुरुपपादम् । त्वदुक्तरीत्या विशेषणवाक्यार्थानां निःशेषेत्यादिप्रतिपाद्यानां वाच्यार्थे वापीत्राने बाधितत्वाद्वाच्यकक्षागतप्रधानवाक्यार्थी भूतविधिनिषेधप्रतिपादकाभ्यां गता न गतेति शब्दाभ्यां विरोधिलक्षणया निषेधस्य विधेश्च प्रतीतेरुपपत्तेः । नहि मुख्यार्थबाधेनोन्मीलितेऽर्थे व्यक्तिवेद्यतोचिता । यथा 'अहो पूर्ण सरो यत्र लुठन्तः स्वान्ति मानवाः' इत्यत्र कर्तृविशेषणानुपपत्त्यधीनोल्लासे
ऽभिहितस्तमुपपादयति — किं चेत्यादि । व्यङ्गयेति । व्यङ्ग्यसंभोगं प्रत्यसाधारण्यमित्यर्थः । अनुपायत्वे हेतुमाह - औणिद्दमिति । 'औन्निद्यं दौर्बल्यं चिन्तालसत्वं सनिःश्वसितम् । मम मन्दभागिन्याः कृते सखि त्वामपि परिभवति ॥' कृतकामुकसंभोगां दूत प्रत्युपभोगचिह्नैस्तं ज्ञातवत्या नायिकाया इयमुक्तिः । साधारणानां रोगादितोऽपि तत्संभवात् । यथात्रैव नायिकायास्तद्वियोगतः । वक्त्रादीति । आदिना बोद्धव्यपरिग्रहः । ननु तस्य तदनुपायत्वेऽपि सति संभवे तत्प्रतिपादनमित्युक्तमेवात आह- प्रत्युतेति । व्यक्तीति । व्यञ्जनेत्यर्थः । एवमग्रेऽपि । एवं च व्यञ्जनासिद्धिरेव न स्यादिति भावः । तटादीत्यस्य वापीस्नानव्यावर्तनायेत्यादि । आदिना जलबिन्दुपातादिपरिग्रहः । ' जातायाः ' इति पाठः । नन्वत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्येनाधमपदेन व्यज्यत इति प्रकाशकाराद्युक्तत्वात्स्नानव्यावृत्तिर्मया कृतात आह-अपि चेति । त्वन्मत इत्यनेन तेषां