________________
२३६
. काव्यमाला। संबन्ध्यभेदारोपस्य कल्पनान्नानुपपत्तिः । कथं तर्हि परम्परितरूपके 'सौजन्यचन्द्रिकाचन्द्रो राजा' इत्यादौ रूपकत्वम् । अभेदारोपस्य सत्त्वेऽपि तस्य सादृश्यमूलकत्वाभावात् । इति चेत्, न । समर्थकारोपेण धर्मैक्यसंपादने सादृश्यस्य निष्प्रत्यूहत्वात् । स्यादेतत् । सौजन्यचन्द्रिका चन्द्र इत्यत्र तत्पुरुषावयवे समानाधिकरणतत्पुरुषे चन्द्रिकायामभेदसंसर्गेण सौजन्यस्य विशेषणत्वात्प्रतीयमानश्चन्द्रिकागतः सौजन्याभेदो न राजनि चन्द्रभेदात्मकं रूपकं समर्थयितुं प्रभवति । यत्संबन्धिनि यत्संबन्ध्यभेद इत्यादि प्रागुक्तन्यायात् । अपि तु सौजन्ये विषये चन्द्रिकाभेदः । यथा'सौजन्यं ते धराधीश चन्द्रिका त्वं सुधानिधिः । स च दुरुपपाद एव । न चानयोः समानवित्तिवेद्यत्वान्नानुपपत्तिरिति शक्यं वक्तुम् । प्रात्यक्षिके हि सामग्र्यास्तुल्यत्वात्तत् । न तु शाब्दबोधे व्युत्पत्तिवैचित्र्यनियबिते । एवमन्यत्रापि कथं समासगतशुद्धपरम्परिते द्वयोरारोपयोर्निर्वाह्यनिर्वाहकभावः । कथं च शशिपुण्डरीकमित्यादौ पुण्डरीकरूपकमुच्यते । पुण्डरीकाभेदात्मकस्य पुण्डरीकताद्रूप्यस्यामानात् । शश्यभेदप्रत्ययाच पुण्डरीकं शशीत्यत्रेव शशिरूपकमुच्यताम् । एवं नीलिमदिव्यतोये तारावलीमुकुलमण्डलमण्डिते षोडशकलादलमङ्कभृङ्गमित्यत्राप्युत्तरपदार्थे पूर्वपदार्थाभेदस्यैव भानात्पूर्वपदार्थरूपकापत्तिः । तथा'सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे ।
वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र संदेहः ॥' इत्यत्र सुन्दयाँ विषयभूतायां राकातादात्म्यावगमात्स्फुटमेव तावद्राकारूपकम् । तत्र चरणत्रयगतानि राकारूपकाण्यनुगुणतयोपात्तान्यपि
खलः' इत्यादौ वक्ष्यमाणान्योन्याश्रयोऽपि न । खलाकाशरूपकोपयुक्तकारुण्यकुसुमयोरभेदप्रत्ययस्येच्छाधीनाहार्यस्य संभवेन तावतैवोपपत्तेः । न तु समर्थकारोपे सादृश्यमूलकलमावश्यकमित्यनुपदमेवोक्तम् । एतेन स्यादेतदित्यादिना सौजन्यचन्द्रिकाचन्द्र इत्यतत्यपूर्वपक्षसमाधाने परास्ते । अस्मदुक्तरीत्या पूर्वपक्षस्यैवाभावादिति । समर्थकारोपेण चन्द्रिकायां सौजन्याभेदारोपेण चन्द्रिकाभेद इति । तदात्मकरूपकं समर्थयितुं प्रभवतीत्यस्यानुषङ्गः । स च स तु सौजन्यचन्द्रिकेत्यत्र । अनयोरभेदयोः । यत् तुल्यवित्तिवेद्य- . खम् । अन्यत्रापि उदाहृतातिरिक्तस्थलेऽपि । उदाहृतस्थल एव शङ्कते-कथं चेति ।