________________
२३४
• काव्यमाला।
इदमेव मालारूपं यथा
'कमलावासकासारः क्षमाधृतिफणीश्वरः ।
अयं कुवलयस्येन्दुरानन्दयति मानवान् ।' शुद्धपरम्परितं केवलं यथा'देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता
देवं जल्पन्ति तावत्प्रतिभटपृतनावर्तिनः क्षत्रवीराः । यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूतें ।
मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंगः ॥' अत्रापि भुजंगारोपो दुग्धारोपसमर्थ्यत्वेनाभिमतः। . तदेव मालारूपं यथा'प्राचीसंध्यासमुद्यन्महिमदिनमणेर्मानमाणिक्यकान्ति
|लामाला कराला कवलितजगतः क्रोधकालानलस्य । आज्ञाकान्तापदाम्भोरुहतलविगलन्मञ्जुलाक्षारसाभा
क्षोणीन्दो संगरे ते लसति नयनयोरुद्भटा शोणिमश्रीः ॥' यद्यपि सावयवेऽप्यारोपे आरोपान्तरस्योपायस्तथापि तत्रारोपातिरिक्तेन कविसमयसिद्धसादृश्येनाप्यारोपान्तरसिद्धिः संभवति । यथा प्रागुक्ते । 'सुन्दरि राकासि नात्र संदेहः' इत्यत्र मौक्तिकादीनां तारात्वाद्यारोपं विनाप्यौज्ज्वल्यमात्रेणापि सुन्दरीं राकारोपसिद्धेः, इह तु नयनशोणिग्नि ज्वालाद्यारोपोऽनलसमारोपं नियमेनापेक्षते । __ एवं 'कारुण्यकुसुमाकाशः खलः' इत्यत्राकाशखलयोः सादृश्यस्याप्रसिद्धतयारोपसिद्ध्यर्थमारोप एवोपाय इति वैलक्षण्यम् ।
तात्पर्यविषयलेन समर्थनीयवेन तद्वद्यखादेव। भङ्गेति । पदच्छेदेत्यर्थः । इदमेव श्लिष्टपरम्परितमेव । कमलेति । कमलानामावासः । कमलाया वासः । पृथ्वीधृतिः क्षान्तिधृतिः । पृथ्वीमण्डलस्य कुमुदस्य च । अयं तो राजा । अत्र समर्थककमलावासाधारोपस्य श्लेषमूलकस्य चन्द्रारोपे निमित्तत्वाद्राज्ञि कासाराद्यनेकपदार्थारोपरूपत्वाच मालाश्लिष्टपरम्परितरूपकता । पूर्वदेवा दैत्याः । 'समिति' इति ‘क इह' इति द्विः पाठः । व्याख्यातमिदम् । दुग्धारोपेति । अनेन परम्परितत्वमुक्तम् । श्लेषमालयोरभावाच्छुद्धकेवलखे । तदेव शुद्धपरम्परितमेव । प्राचीति। अपिना मालारूपकपरिग्रहः ।