________________
२३२
काव्यमाला |
'व्योमाङ्गणे सरसि नीलिम दिव्यतो ये तारावलीमुकुलमण्डलमण्डितेऽस्मिन् । आभाति षोडशकलादलमङ्कभृङ्गं सूराभिमुख्यविकचं शशिपुण्डरीकम् ॥'
अस्य तु सावयवरूपकस्यानुवाद्यत्वमेव । अत्र वर्णस्य पूर्णचन्द्रस्य सूर्या - भिमुख्यं ज्योतिःशास्त्रसिद्धम् । तेन सूर्याभिमुख्ये चन्द्रस्य कथं विकास इति न शङ्कनीयम् ।
एकदेशविवर्ति सावयवं यथा‘भवग्रीष्मप्रौढातपनिवहसंतप्तवपुषो
-
बलादुन्मूल्य द्वाङ्गिडमविवेकव्यतिकरम् । विशुद्धेऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे विगाहन्ते दूरीकृत कलुषजालाः सुकृतिनः ॥' अत्र सहचरैर्निगडादिरूपकैः सुकृतिषु गजरूपकमाक्षिप्यते । यथा वा
'रूपजला चलनयना नाभ्यावर्ता कचावलीभुजगा । मज्जन्ति यत्र सन्तः सेयं तरुणीतरङ्गिणी विषमा || '
पूर्वं तु कवेः समर्थ्यत्वेनाभिमतस्य रूपकस्याक्षेपः, इह तु समर्थकत्वेनाभिमतस्य नयनयोमनरूपकस्येति विशेषः । अत्र च चमत्कारविशेषजनकतया रूपक संघातात्मकमपि सावयवरूपकं रूपकालंकृति भेदगणनायां गण्यते । यथा मौक्तिकालंकृतिभेदगणनायामेकं नासामौक्तिकमिव संघातात्मकमौक्तिकमञ्जर्यादयोऽपि गण्यन्ते । अन्यमालारूपस्योपमादेस्तद्भेद
·
माह—यथेति । लक्ष्यान्तरमाह — व्योमेति । लक्ष्यान्तरदाने विशेषमाह - अस्य त्विति । अत्र क्वापि पृथग्विभक्तेरश्रवणान्मिथ उद्देश्यविधेयाभावेन सर्वमुद्दिश्याभाया एव विधेयत्वादिति भावः । स्पष्टत्वादितरदुपेक्ष्याह - अत्रेति । प्रौढातपेत्यत्र कर्मधारयः । व्यतिकरः संबन्धः । सहचरैरित्यनेनाक्षेपकत्वयोग्यता, गजरूपकस्य प्राधान्यं च सूचितम् । लक्ष्यान्तरदाने बीजमाह - पूर्वं त्विति । रूपकस्य गजेत्यादि । मीनेति । सन्त इत्यस्य तु साधवः सुहृदश्चेत्यर्थद्वयमिति भावः । जनकतयेति गणनायां हेतुः । गण्यत इति । पृथगिति शेषः । लोकदृष्टान्तेन सिद्धमर्थं प्रतिपाद्य व्यतिरेकमुखेन द्रढ - यति—तद्भेदेति । उपमालंकारभेदेत्यर्थः । प्रस्तुतौ प्रस्तावे । एवं अस्य पृथग्गणनवत् ।