________________
रसगङ्गाधरः।
२२५
तज्जनकदोषेणैव प्रतिबध्यमानत्वात् , अतिशयोक्तिनिदर्शनयोश्च साध्यवसानलक्षणामूलकत्वात् , उपमेयतावच्छेदकस्य नास्ति पुरस्कारः । शब्दादिति विशेषणात् 'मुखमिदं चन्द्रः' इति प्रात्यक्षिकाहार्यनिश्चयगोचरचन्द्रतादात्म्यव्यवच्छेदः । निश्चीयमानमिति विशेषणात्संभावनात्मनो 'नूनं मुखं चन्द्रः' इत्याद्युत्प्रेक्षाया व्यावृत्तिः । उपमानोपमेयविशेषणाभ्यां साहश्यलाभात् 'सुखं मनोरमा रामा' इत्यादिशुद्धारोपविषयतादात्म्यनिरासः । सादृश्यमूलकमेव च तादात्म्यं रूपकमामनन्ति ।
तथा चाहु:..... 'तद्रूपकमभेदो य उपमानोपमेययोः ।'
.... 'उपमैव तिरोभूतभेदा रूपकमुच्यते ।' इति । .. ... तच्च यत्र विषयविषयिणोरेकविभक्त्यन्तत्वेन निर्देशस्तत्र संसर्गः, अन्यत्र तु शब्दार्थतया क्वचिद्विशेषणं विशेष्यं चेति विवेचयिष्यते ।.. . ... यत्तु सादृश्यप्रयुक्तः संबन्धान्तरप्रयुक्तो वा यावान्भिन्नयोः सामानाधिकरण्यनिर्देशः स सर्वोऽपि रूपकम् । सारोपलक्षणामूलकत्वस्य तुल्यत्वेन सादृश्यप्रयुक्तस्य तादात्म्यस्येव संबन्धान्तरप्रयुक्तस्यापि तादात्म्यस्य संग्रहीतुमौचित्यात् । तस्मात् "दुराग्रह एवायं प्राचाम्-उपमानो पमेययोरभेदो रूपकम् , न तु कार्यकारणयोः” इति रत्नाकरेणोक्तं तन्न । अपहृत्यादौ भिन्नयोः सामानाधिकरण्यस्य सत्त्वात्तत्रातिव्याप्तेः । किं च 'सादृश्यमूलकं स्मरणं स्मरणालंकारः, न तु चिन्तादिमूलम्' इति भवतैव पूर्वमुदितम् । तत्र यदि सादृश्यामूलकस्यापि कार्यकारणादिकयोः कल्पितस्य तादूप्यस्य रूपकत्वमभ्युपेयते तदा सादृश्यामूलकस्य चिन्ता
खादिना मुखोपस्थितिरिति मतेऽपि नातिव्याप्तिरिति बोध्यम् । तजनकेति । भ्रान्तिजनकेत्यर्थः । उपमेयतेति । मध्यमणिन्यायेनोभयत्रान्वयोऽस्य । संभावनात्मनस्तद्रूपाया उत्प्रेक्षाया वस्तूत्प्रेक्षायाः । उपमानोपमेयेति । एतद्रूपविशेषणाभ्यामित्यर्थः । उपमानत्वोपमेयत्वयोः सादृश्यनियतत्वादिति भावः । आहुरिति । मम्मटभट्टादय इत्यर्थः । अत्रार्ध मम्मटीयम् । अर्धमन्यदीयम् । तथा च भिन्नं लक्षणद्वयमिदम् । तञ्चेति । उक्तरूपतादात्म्यं चेत्यर्थः । संसर्ग इति । अपदार्थत्वादिति भावः। विनिगमकाभावादाह-वचिदिति । भिन्नयोरिति । न तूपमानोपमेययोरित्यर्थः । किं